________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ "अयं निज: परोवेति गणना लघुचेतसां ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥" इदं तु विचार्य ते - मिथ्याज्ञान हेतुना मोहेन च (अहंकारेण च ) दु:खानुभवो भवति । येषु येषु जनेषु वस्तुषु च संयोगः, तादृश: एव दुःख प्रकारः ।
प्रोक्तं च - "संयोगतो दुःखमनेक भेदं
___ यतोऽश्नुते जन्मवने शरीरी।" अर्थात - यावन्त: वस्तुसंयोगा: तावन्त: दुःखप्रकाराः संसारे प्राणिभि: अनुभूयन्ते सर्वदा । वस्तुसंयोगे सति सुखमुत्पद्यते, वस्तु वियोगे सति दुःख मुत्पद्यते । अत: संयोगे वियोगे सुखे दु:खे जनने मरणे वा समतागुणस्य ग्रहणं कुर्यात् मानवः । सन्यासिन: त्यागिन: -
महात्मानश्च सर्वदा सर्वत्र समता भावस्य साधनमेव कुर्वन्ति। समता (शान्ति) गुणेनैव तेषां तपस्या सफलीभूता भवति, अन्यथा ते एक क्षणमपि तपस्यां कर्तुं न शक्नुवन्ति। धर्मग्रन्थेषु कथितं च -
मातृवत्परदारेषु परद्रव्येषु लोष्ठवत् ।
आत्मवत्सर्वभूतेषु यः पश्यति स पण्डित: ॥ अर्थात् - स जन: बुद्धिमान धर्मात्मा, य: मातृषु परस्त्रीषु च, परद्रव्येषु पाषाणेषु च, सर्वभूतेषु (प्राणिषु) आत्मनि च समतागुणं धारयति ।
किञ्च - लोके विद्यमानेषु विविध - द्रव्येषु साधवः त्यागिन: अहंकारं (मदं), ममकारं (मोह) च कदापि न कुर्युः । अहंकोरण ममकोरण च सत्यज्ञानस्य चारित्रस्य च नाशः भवति । मानवानां मदमोहौ (रागद्वेषौ) मुक्ति साधनायां विध्नं कुरुतः । उदारपरमेश्वरस्य ध्यानं विना हि मानवा: उदारा: न भवितुं अर्हन्ति। उक्तंच
यावत: कुरुते जन्तु: सम्बन्धान मनस: प्रियान्। तावन्तोऽपि विलिख्यन्ते, हृदये शोक शङ्कवः ॥
(455)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org