________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ उदारचरितानांतु वसुधैव कुटुम्बकम्
अथवा परोपकाराय सतां विभूतयः
अस्मिन् संसारे सर्वेप्राणिन: समये समये जन्म मरण परम्परां प्राप्नुवन्ति । रात्रिदिवस वत् जन्ममरणयो: सुख दुःख योश्च क्रमश: परिवर्तनं भवति । अस्यां जन्ममरणपरम्परायां तेषां नराणां जीवनं सफलं विद्यते, ये विद्याभ्यासं कृत्वा आत्मकल्याणं कुर्वन्ति । अन्यथा जीवनं व्यर्थ मेव । तथा चोक्तम् -
रूपयौवन सम्पन्ना:, विशालकुल सम्भवाः ।
विद्याहीना: न शोभन्ते, निर्गन्धा: इव किंशुकाः ॥ ज्ञानेन सदाचारेण च ये जना: आत्महितं कृत्वा निजवंशस्य कल्याणं तथा उन्नतिं कुर्वन्ति, तेषां जीवनं श्रेष्ठं अस्ति । जीवनमरण मात्रेण मानवजीवनं श्रेष्ठं न जायते । उक्तं च कविना -
सजातो येन जातेन याति वंश: समुन्नतिं ।
परिवर्तिनिसंसारे मृत: को वा न जायते ॥ श्लोकस्य सारांश :- अस्मिन् संसारे सर्वे प्राणिन: जन्म धृत्वा मरणं प्राप्नुवन्ति, परन्तु तेषां जन्म सफलं न विद्यते । तेषां मानवानां जन्म सफलं विद्यते ये जना: विविध ज्ञानं प्राप्य स्वस्य वंशस्य समाजस्य राष्ट्रस्य च कल्याणं कुर्वन्ति । ये च लोकहिताय निजजीवनस्य समर्पणं कुर्वन्ति ते धन्या:।
सत्य ज्ञानेन सदाचारस्य वृद्धिः भवति, सदाचरणेन हृदयस्य उदारता पवित्रता च सम्पद्यते । धर्म ग्रन्थेषु सदाचरणस्य महती व्याख्या दृश्यते । तथाहि - आत्मविश्वास:, अहिंसा पालनं, सत्य कथनं, चौर्यपरित्यागः, ब्रह्मचर्यसाधनं, लोभ परित्यागः, मद्यत्यागः, मांसत्यागः परमात्मभक्तिश्च सदाचार: सच्चारित्रं वा कथ्यते।
सदाचरणे नैव मानवानां हृदयं उदारं जायते उदार चित्ता: नराः सर्वलोकस्य संरक्षणं हितं च कुर्वन्ति। न हि तेषां मानसे सम्प्रदायस्य जाते: समाजस्य वंशस्य देशस्य च पक्षपात: मोहश्च भवति, अपितु सर्वेषां जनानां स्वकुटुम्बवत् ते परोपकारं कुर्वन्ति । यथा च सूर्य: चन्द्रश्च सर्वलोकस्य उपकारं करोति पक्षपातं विना, तथैव महात्मानः सर्वलोकं कुटुम्बकत् मन्यन्ते । सर्व लोकस्य महात्मानः, महात्मनां च सर्वलोकः इति उदारचरितानां मानवानां महान् सम्बंध विद्यते । अयं पुत्र: मम, अयं बालकः परस्य, अयं मम कुटुम्ब: अयं च परस्य कुटुम्बः इति विचार: क्षुद्र बुद्धीनां जनानां भवति, न तु महात्मनाम् । नीतिज्ञैः कथितं -
-454
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org