________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ विचार्य शीघ्रं कार्यं न कुर्वन्ति । प्रात: कालेऽपि सूर्योदयात्पूर्वं शय्यां न त्यजन्ति । परमे श्वरस्य समये समये प्रार्थनां न कुर्वन्ति । समये दैनिककार्यं न सम्पादयन्ति। अनेन प्रकारेण बहुकालं ते यत्र तत्र गप्पाष्टके क्षपयन्ति। द्वितीयास्तु जना: एवं कथयन्ति -
"सर्व खलु ईश्वर: करोति" तथा "भाग्यं फलति सर्वत्र न विद्या न च पौरुषम्" - इति मन्यमाना: सदैव भाग्यस्य अपेक्षां कुर्वन्ति, कदापि कर्तव्येषु प्रयत्नं नैव समाचरन्ति । पुरा बहवो नृपा: शुभतिथिं हि प्रतीक्ष्य शत्रो: विरोधमपि न कुर्वन्त: परित: पराजिता: अभवन् । विचारदक्षा: वीरा: आगतं अनागतं वा विपत्तिसागरं साहसेनैव सन्तरन्ति॥
परीक्षाकाले विचार शून्या अलसा: छात्राः श्रमेण नैव पठन्ति, अत: प्राय: अनुत्तीर्णः भवन्ति । तृतीय श्रेण्यां वा सफलतां लभन्ते, अनुकरणं वाकृत्वा उत्तीर्णा: दृश्यन्ते । अत: छात्रा: मनसा वाचा कर्मणा स्वस्य विद्याभ्यासं कुर्युः ।
मानव जीवनस्य कालोऽपि दीर्घ: नास्ति । यत् किञ्चिदपि करणीयं विद्यते, शीघ्रमेव तत्कार्यं जनाः योग्यकाले कुर्युः । जीवने प्रत्येक क्षणस्य महती उपयोगिता वर्तते । आयुष: क्षण एकोपि न लक्ष्य: स्वर्ण कोटिभिः । प्रोक्तं च नीतिकारेण -
· श्वः कार्यमद्य कुर्वीत, पूर्वाह्ये चापराहिकम् ।
नहि प्रतीक्षते मृत्यु:, कृतमस्य न वा कृतम् ॥ यदि विचार्य श्रमेण कार्यं कुर्वन् जनः साफल्यं न लभेत, तर्हि पुन: पुन: उद्योगं कुर्यात् , कदापि हताशो न भवेत् । यत: असफलतैव ननु सफलताय: सोपानं भवति । “महाजनो येन गतः स पन्थाः” इति विचार्य जीवने यत: आवश्यकं परमकर्तव्यं विद्यते, तत् मानवः शीघ्रमेव कुर्यात् । हिंसा असत्यं चौर्य लोभः प्रभृति पापानि हेयानि सन्ति, अहिंसा - सत्यादि धर्माणि उपादेयानि सन्ति इति विवेकं कृत्वा मानवा: स्वजीवने श्रमेण आत्मकल्याणं लोककल्याणं च कुर्युः । युधिष्ठिरस्य भीमसेनं प्रति कथनं अस्ति -
सहसां विदधीत न क्रियां, अविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः ॥
(किरातार्जुनीय श्लोक 30 द्वि.स.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org