________________
कृतित्व/संस्कृ
काव्यस्य आत्मा ध्वनिः
शब्दार्थ शरीरस्य काव्यस्य अनुप्राणकेन केनचित् आत्मना भवितव्यमेव इति काव्य जीवनस्य अन्वेषणे कृते, वामनाचार्यः रीतिं, कुन्तकाचार्य: वक्तोक्तिं, क्षेमेन्द्राचार्य: औचित्यं, आनंद वर्धनाचार्यश्च ध्वनिं - कथितवान् । अथ कोऽयं ध्वनिः इति विचार: सर्वप्रथमं विज्ञानां मनसि समुदेति । श्री मम्मटाचार्येण स्वविरचिते काव्य प्रकाशग्रन्थे ध्वनिलक्षणं कथितम् -
साहित्य मनीषी की कीर्ति स्मृतियाँ
“इदमुत्तममतिशायिनि व्यङ्ग्यवाच्याद्ध्वनिर्बुधैः कथितः”
भावार्थ:-काव्ये प्रायः द्वौ अर्थौ प्रसिद्धौ - वाच्यार्थ : व्यङ्ग्यार्थश्च । परं यत्र वाच्यार्था पेक्षया व्यंग्यार्थः चमत्कारी भवति तत्र व्यंग्यार्थस्य प्राधान्ये सति प्रधान व्यंग्यार्थस्य 'ध्वनि' इति नाम भवति ।
ध्वनि सिद्धांत प्रतिष्ठापकेन आनंद वर्धनाचार्येण स्वरचिते ध्वन्यालोके ग्रन्थे ध्वनिलक्षणं प्रोक्तम् - यत्रार्थः शब्दो वा तमर्थमुपसर्जनी कृतस्वार्थौ ।
व्यङ्कतः काव्यविशेष: स ध्वनिरिति सूरिभिः कथितः ॥ 13 ॥
भावार्थ: - यत्र अर्थः स्वयं अथवा शब्द: स्वार्थं गुणीभूतं कृत्वा तं प्रतीयमानं अर्थं व्यक्तं करोति, तं काव्य - विशेषं 'ध्वनि' इत कथयन्ति विद्वांसः ।
-
यद्यपि प्रतीयमाने व्यंग्ये अर्थे मनोहरत्वं सिद्धं तथापि काव्ये व्यंग्यार्थसद्भावेनैव न सर्वत्र ध्वनिव्यवहारः, परं यत्र वाच्यार्थापेक्षया व्यंग्यार्थस्य प्राधान्यं तत्रैव प्रधान व्यंग्यार्थस्य 'ध्वनिः' इति व्यवहारः प्रसिद्धः । स ध्वनि: उत्तम काव्यं कथितम्
यत्रच व्यंग्यार्थापेक्षया वाच्यार्थस्य प्राधान्यं न विद्यते व्यंग्यार्थस्य गौणता विद्यते न तत्र ध्वनि व्यवहार:, अपितु गुणीभूत व्यंग्यनामकं मध्यम काव्यं कथितम् ।
यत्र च काव्ये अलंकारस्य प्राधान्यं विद्यते, तत् अलंकार प्रधानं काव्यं जघन्यं काव्यं कथितं । एवं काव्यस्य त्रयः भेदा: उत्तमं मध्यमं, जघन्यं च । यद्यपि प्राचीनाचार्या : अलंकार गुणरीति - लक्षणानि ग्रन्थेषु जगदु:, तथापि तानि सर्वाणि प्रधान ध्वनि काव्यस्य साधन भूतानि सन्ति, सौन्दर्य कराणि च अङ्गानि शोभन्ते । ध्वनिकाव्यं त्रिविधं - 1 वस्तुरूपं, 2 अलंकाररूपं, 3 रसरूपं । क्रमशः तेषां लक्षणं कथ्यते
(1)
Jain Education International
रसालंकारादिभिन्नं अर्थं वस्तु, तस्य व्यंग्यत्वे प्राधान्ये च वस्तु ध्वनिः भवति । यथा गुञ्जन्ति मञ्जु परितो, गत्वा धावन्ति सम्मुखम् । आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥
458
For Private & Personal Use Only
www.jainelibrary.org