________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ कार्यक्रमः, नापि सद्व्यवहार: परन्तु प्रतिवर्षे पर्वण: मान्यता विधीयते एव, इति महदाश्चर्यम् । अत: भारतीयैः विवेके न रक्षाबंधनपर्वण: मान्यता, प्राणिसंरक्षणस्य देशरक्षायाः कुटुम्बरक्षायाश्च प्रतिज्ञा, महापुरुषपदचिन्हानुकरणं मैत्रीभावधारणं च कर्तव्यम् । अनेन मानवजीवनस्य सफलता नियमेन भविष्यति ।
रक्षाबंधनस्य महत्त्वम् -धार्मिक क्षेत्रे, राष्ट्रीय क्षेत्रे, सामाजिक क्षेत्रे, सेवा क्षेत्रे, जीवनं क्षेत्रे च क्षेत्रे रक्षाबंधनस्य परम महत्त्वं विद्यते । यतश्च सर्वक्षेत्रे सुरक्षाया: आवश्यकता । रक्षया च राष्ट्रस्य समाजस्य च समृद्धि: । बाह्याक्रमणेभ्य: सुरक्षा भवति । सुरक्षया देशोत्थानम् भवति ।
एवं प्रकोरण संस्कृत साहित्ये व्यवहारे च रक्षाबंधनस्य महत्त्वं देशे विदेशे च प्रसिद्धम ।
उपसंहार -भारतीय सांस्कृतिक पर्व परम्परायां रक्षाबंधनं महत्त्वपूर्ण श्रेष्ठं पर्व विद्यते । तस्य प्राचीनता इतिहासेन प्रसिद्धा कथावस्तु पुराणैः सिद्धम्। तस्य रूपरेखा धर्मशास्त्रैः प्रोक्ता । भारतीयेतिहासेन रक्षाबंधनस्य तात्पर्य सिद्धम् । अस्मिन पर्वणि मैत्रीभावस्यादर्श: तेन प्राणिरक्षा राष्ट्ररक्षा परोपकारश्च प्रकटी भवति।
__ आध्यात्मिक रक्षाबंधनेन आत्मन: क्रोधद्वेषहिं सा परिग्रहादि शत्रुभ्य: विमोक्ष: शान्तिश्च भवति । पर्वानुकूला सामाजिक पद्धति: भवेत्। रक्षासूत्रबंधनेन सह रक्षा प्रतिज्ञाबंधनं परमावश्यकम् । पर्व विषये मिथ्यावादस्य नाशो विधेयः । अस्य महत्त्वं सर्वक्षेत्रे संस्कृतसाहित्येन लौकिकसाहित्येन वा प्रसिद्धं
अत: रक्षाबंधन पर्वण: मनस: वाचा कर्मणा सम्यक मान्यता विधेया।
(447
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org