________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ आत्मशान्ति: विश्वशान्तिश्च स्वदोषशान्त्या विहितात्मशान्ति:
आत्मनः शान्तिः इति आत्मशान्तिः इति विग्रहः । मानस शान्तिः इत्यपि तस्य पर्याय: । आकुलताया: अथवा चिन्ताया: अभावे आत्मशान्ति: भवति । काम क्रोधमाया दिविकारैः चित्ते अशान्ति: दुःखं च भवति। मानमायारहिता: जना: जीवने शान्तिं सुखं च अनुभवन्ति । धन लोलुपा: मानवा: सर्वदैव व्याकुला: सन्त: संतोषं न धारयन्ति । विषय तृष्णाभि: तेषां हृदयं सर्व दैव प्रज्वलति । उक्तं च -
सन्तोषामृततृप्तानां, यत्सुखं शान्तचेतसाम् ।
कुतस्तद्धनलुब्धानां, इतश्चेतश्च धावताम् ॥1॥ लोके सर्वेजना: जीवनसुखं इच्छन्ति । कोऽपि पुरुष: अल्पमपि कष्टं न वाञ्छति, सर्वदैव दुःखात् विभेति । दया अहिंसा धर्मस्य मूलं विद्यते । दयाभावेन प्राणिनां रक्षा भवति । दयाभावेनैव शत्रवः मित्राणि जायन्ते । यथा निजप्राणा: प्रिया: भवन्ति तथैव महात्मनां परमाणा: अपि प्रिया: भवन्ति । अत: ते महात्मान: निजप्राणवत् परेषामपि जीवानां प्राणरक्षां कुर्वन्ति । प्राणरक्षणे सति आत्मशान्ति: जायते । आत्मशान्ति भावेन समाजस्य देशस्य च शान्तिः भवति । तथाचोक्तम् -
प्राणा: यथात्मनोऽभीष्टाः, भूतानामपि ते तथा ।
आत्मौपम्येन भूतेषु, दयां कुर्वन्ति साधवः ॥2॥ आत्मशान्तिः सर्वेषां प्राणिनां श्रेष्ठा विभूति: वर्तते, यस्या: आकर्षणं स्वाभाविकमेव भवति । आ सृष्टेः प्रारम्भात् जना: शान्त्यर्थं चेष्टमाना: भवन्ति । तथापि शान्ति: अधुनापि मृगमरीचिका इव तान् सर्वान् न सन्तोषयति । किं च - प्रतिदिनं अस्माकं अशान्ति: वर्धते एव, न क्षीयते । अवश्यमेव काचित् त्रुटिरेव अस्माकं शान्ति प्रयत्नान विनश्यति । वयं तां त्रुटिं विज्ञजन सहयोगेन अवश्यमेव दूरीकुर्याम।
सर्वेषां महात्मनां अयमेव प्रयत्न: भवति, यत्ते न केवलं निजशान्तिं कुर्वन्ति, अपितु लोकशान्तिं राष्ट्रशान्तिं वा कर्तुमपि जीवनपर्यन्तं चेष्टन्ते । यथा प्रज्वलितेषु वनखण्डेषु एकोऽपि वृक्ष: हरित: न जीवति तथैव दु:खिते देशे समाजे वा व्यक्तेः शान्तिः जीवने न भवति । तथाहि -
परमदयालुः गौतमबुद्ध: स्वयंमेव आत्मशान्तिं प्राप्तवान् । तत: लोकशान्ति कार्येऽपि बहुप्रयत्न सदैव अकरोत् । तं प्रयत्नं ध्यानेन पश्यन्तु भवन्त: । महात्मा श्रीबुद्ध: जीवन दुःखस्य विनाशकं आष्टाङ्गिकं कल्याणमार्ग कथयति स्म -
___ 1. सत्यदृष्टि:, 2. संकल्प: (प्रतिज्ञा), 3. सत्यवाणी, 4. सत्कर्म, 5. सत्य व्यापार: (आजीविका), 6. व्यायाम:,7.स्मृति:, 8. समाधि: इति। बुद्धस्य अष्टविध: अयंकल्याण मार्ग:लोकशांतिकारकः अभवत्।साम्प्रतमपि सर्वे मानवाः तस्मिन् दुःखशांति मार्गे नित्यं प्रयत्नं कुर्वन्तु ।
-448
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org