SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ धर्मो वसेन्मनसि यावदलं स तावत्, हन्ता न हन्तुरपि पश्य गतेऽथ तस्मिन् । दृष्टा परस्परहतिर्जन कात्मजजानां, रक्षा ततो ऽस्य जगतः खलु धर्मएव ॥1॥ (गुणभद्र आत्मानुशासने श्लोक 26) यत्र वात्सल्याभाव: विनयाभावश्च, तत्रा भिमानादि दोष वशीभूतो जनः अन्येषां तिरस्कारं करोति, स स्वस्यैवानिष्टं करोति । उक्तं च - स्मयेन योन्यानत्येति धर्मस्थान्गर्विता शय: । सोत्येति धर्ममात्मीयं न धर्मो धार्मिकै बिना ॥ (रत्नकरण्डश्रावकाचोर श्लोक 26) वैदिकपुराणेषु रक्षाबंधनस्य प्रयोजनम् - कास: क्षोभवस्त्र ; विचित्रमल वर्जितै : । पुरोधा नृपते रक्षां सम्यक वधनीतमानवै: ॥1॥ येन बद्धो वली राजा दानवेन्द्रो महाबल: । तेन त्वामभिवध्यामि रक्षे माचल माचल ॥2॥ ब्राह्मणै: क्षत्रिय वैश्यै: शुद्रैरन्यै श्च मानवै: । कर्तव्यो रक्षिकाबन्धो द्विजान्सम्पूज्य भक्तित: ॥ 3 ॥ अत्रापि मैत्रीपूर्वकं रक्षा प्रयोजनं सिद्धम्। __ सत्वेषु मैत्री गुणिषु प्रमोदं क्लिष्टेषु जीवेषु कृपापरत्वम् । माध्यस्थ भावं विपरीतवृत्तौ सदा ममात्मा विद्धातु देव ॥1॥ (सामायिक पाठे अमिगति:) सामाजिक संस्कृति -प्राय: भारतीय समाजेषु अस्मिन्पर्वणि विविध पद्धति प्रचलिता विद्यते । तद्यथा - भ्रातुः करे भगिनीभि: रक्षासूत्रबंधनं, विप्रैः परिचितानाम् करेषु रक्षासूत्र बंधनं, मंदिरेषु स्वत: रक्षासूत्रबंधनं, हीनै: समर्थानां करेषु रक्षाबंधनं, गृहद्वारेषु रक्षासूत्र बंधनं, वृत्तिसाधनेषुरक्षाबंधनं, अर्थोपार्जन साधनेषु रक्षासूत्रबंधनं अन्येषु वा दैनिकोपयोगिसाधनेषु प्राय: सवै: रक्षासूत्रबंधनं विधीयते । परस्परं व्यवहारे निमंत्रणं, उपहारप्रदानं, श्रीफल प्रदानं, हरिद्रया तिलककरणं, मन्दिरेषु गृहेषु वा रक्षाबंधनकथावाचनं, भजनोपदेशः सभाया: कार्यक्रमः, कविसम्मेलनं, अर्चाविधानं, गृहस्य वस्त्राणां च स्वच्छता । देशनेतृभिः राष्ट्र संरक्षणस्य प्रतिज्ञा करणं । समाज संरक्षणस्य, ग्राम संरक्षणस्य कुटुम्ब संरक्षणस्य गृह रक्षाया:आत्मरक्षायाश्च प्रतिज्ञा क्रियते विद्वद्भिः साम्प्रतं पशुरक्षाया: प्राणिरक्षाया वा तथा वनस्पत्यादिरक्षाया: वा देशे आवश्यकता विद्यते । परन्तु साम्प्रतं रूढ़ि मार्गानुसारिभि: धर्मान्ध भक्तैर्वा गतानुगतिकतया पूर्वागत परम्परया वा पर्वण: मान्यता क्रियते। तस्यां मान्यतायामेव ते प्रमोदन्ते। व्यंजनास्वादनेनैवतुष्यन्ति, रूप्यकाणां लाभेन, वस्त्राणां वा परिधारणेनानन्दन्ति । तेषां हृदये राष्ट्र संरक्षणस्य समाजसंरक्षस्य न कापि चिन्ता न च -CAD Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy