________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ कृतं, आश्चर्ययुक्तेन बलिना स्वीकृतं । व्यक्त जल धारात्रयेण संकल्पः कृतः । वामनः विराटरूपेण चरणद्वयेन लोकत्रयमधिकृतवान् । तृतीयपादः बलिमस्तके निहितः । बलिना क्षमाप्रार्थनां कृता, राज्यं च दत्तम् । विष्णुना (वामनेन) देवसंरक्षणं दैत्यबहिष्कार श्च कृतः।
जैनवैदिक पुराणेषु पर्वविषये तुलना -देवराज्यसुरक्षा - सत्यमानवराज्यरक्षा । दैत्य राज्यविनाश: - दुष्टजनराज्यविनाश: । मुनिविष्णु कुमार: विष्णुदेव: । वामनच्छात्र: - वामनावतारः । शत् तमयज्ञ: - नरमेघः। देवरक्षा-मुनिरक्षा । पादत्रयभूमि - याचना समाना। दैत्यबलि: - दुष्ट बलिनृपः । छलेन-वृद्धि बलेन। विराटरूपः ऋद्धि- दीर्घकाया: । लोकत्रयं- मनुष्य लोकः । रक्षाबंधनं समानमिति ।
___ भारतीयेतिहासे रक्षाबंधनम् -भारतस्येतिहासे ऽपि रक्षाबंधनस्य महत्त्वं दृश्यते । सेनापति संग्रामसिंहवीरेण मुगल सेनापतित: स्वस्य भगिनी रक्षिता: या बून्दीमहाराजस्य पुत्री यमुना सुरक्षाहेतो: संग्रामसिंगस्याधिकारे प्रदत्ता । तस्या: रक्षार्थं कारागारे एव स प्राणानत्यजत् ।
इतिहासे यवननृपाणामुपरि रक्षाबंधनस्य प्रभावो दृश्यते । तद्यथा - एकदामेवाडक्षेत्रे राज्या: कर्मवत्या: राज्ये सुल्तान बहादुरशाहनृप: आक्रमण: मकरोत् । आसीच्च कर्मवत्या: सेनाया: न्यूनता । अत: कर्मवत्या तत्समये श्रावणमासे स्वशत्रुबहिष्कारार्थं साहायां प्राप्तुं देहलीनगरस्य मुगलसम्राट बादशाह हुमायु महोदयं प्रति रक्षासूत्रं प्रेषितं स्वमन्त्रिभिः सह परामर्शपूर्वकम्।
हुमायुं बादशाहेन पत्रस्योत्तरं प्रेषितम् “यदहं अवश्यमेव रक्षासूत्रस्य गौरवं रक्षयिष्यामि'' हुमायूँ बादशाहेन तदनन्तरं स्वसेनाभिः सह मेवाड़ क्षेत्रं गत्वा महत् परिश्रमेण कर्मवतीरक्षिता । रक्षाबन्धाद् हेतोः एकेन यवन भ्राता विपत्समये हिन्दूभगिनी सुरक्षिता । इतिहासे विशेष घटनेयं स्वस्य विषयस्येति ।
वात्सल्यभावस्यादर्श: -अस्मिन् रक्षाबंधन पर्वणि वामनरूप धारिणा विष्णुना वात्सल्य भावेनैव दुर्जनेभ्य: प्राणिन: सन्मानवाश्च रक्षिता: । यतश्च वात्सल्यभावमन्तरेण प्राणिनां संरक्षणं परोपकारश्च न भवितुमर्हति अत: लोके वात्सल्यस्य किं वा प्राणिरक्षाया: सन्मानवरक्षायाश्चादर्शः प्रकटीभवति । श्रीसमंतभद्राचार्येण रत्नकरण्डश्रावका चारे वात्सल्य भावस्य लक्षणं प्रोक्तं -
___ स्वयूथ्यान्प्रति सद्भावसनाथाऽपेत कैतवा ।
प्रतिपत्तिर्यथा योग्यं वात्सल्यमभिलप्यते ॥1॥ स्वबन्धूनप्रति स्वपरोपकार भावेन निष्कपटरीत्वा यथायोग्यं आदरसत्कारभावः हितभावः सुरक्षा भावो वाऽन्योवा सद्विचार: वात्सल्यं कथ्यते । श्री मदमृत चन्द्राचार्येणापि पुरुषार्थसिद्धयुपायु ग्रन्थे प्रोक्तम्
अनवरतमहिंसानां शिवसुखलक्ष्मी निबंधने धर्म ।
सर्वेष्वपि च सधर्मिषु परमं वात्सल्यमालम्ब्यम् ।।29।। गोवत्सवत् धार्मिक सिद्धांते धर्मनिष्ठ मानवेषु च उत्कृष्टवात्सल्यं मैत्रीभावो वा धारणीयः । वात्सल्यभावोऽयं सम्यग्दर्शनस्य सप्तमोऽङ्गः, अनेनबिना सम्यकत्वस्य पूर्णता सफलता वा न भवति । विशालस्य अहिंसा धर्मस्यायं वात्सल्य भावः प्रधानांग: कर्तव्यों वा विद्यते । अहिंसा धर्मेण विश्वप्राणिनां रक्षा निश्चयेन भवत्येन।
-445
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org