________________
कृतित्व / संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ राज्यमासीत्। एकदा हस्तिना पुरस्य उद्याने एकाधिकसप्तशतक योगिनां संगः समागतम् । प्रधानसचिवेन वलिनासप्तदिनपर्यन्तं राज्यं प्राप्य, हिंसात्मकं नरमेघयज्ञं रचयित्वा तेषु योगिषु घोरोपसर्गश्चक्रे । योगिनश्च निराहाराः ध्यानस्थाः आसन् । तदैव गगने श्रवणन क्षत्र प्रकम्पनं दृष्ट्वा मिथिलापुरी वनस्थेन सागर चन्द्रमुनिना अवधिज्ञाने न तद् घोरोपसर्गं विज्ञाय मुनि सुरक्षार्थं श्री पुष्पदन्त क्षुल्लक: धरणी भूषण पर्वतस्थिस्य श्री महर्षेः श्री विष्णु महापुरुषस्य निकटे प्रेषितः । विक्रियर्द्धिधारिणा वामनावतारेण 1 विष्णुमहायोगिना शीघ्रं हस्तिनापुरं गत्वा अहिंसात्मक पद्धत्या ते 701 योगिनोऽरक्षन्त । नरमेधादि हिंसाकृत्यानां च पूर्णतया बहिष्कारं विधाय बलि प्रभृति हिंसा कारिणां मानवानां चकृते अहिंसा सत्यपरोपकारादिकर्तव्यानां सभ्यगुपदेशं चकार श्री विष्णु महापुरुषः । सर्वै: अहिंसासत्य व्रतस्य प्रतिज्ञा कृता । प्रजाभि: महोत्सवः कृतः । पारस्परिकवात्सल्य द्योतकं रक्षासूत्रस्य बंधनं हस्तेषु विहितं । तत्समयादेवपर्वरूपेण लोके प्रसिद्धि: संजाता ।
श्री विष्णु महापुरुषेण मानव सुरक्षार्थं वात्सल्य भावस्य (मैत्रीभावस्य ) माहात्म्यं (आदर्श:) देशे विदेशे च प्रकटीकृतम् । श्री समंतभद्राचार्येणापि तस्य माहात्म्यं स्वरचित शास्त्रे कथितम् - I "विष्णुश्चबज्रनामा च शेषयोर्लक्ष्यतां गतौ” इति किञ्च -
श्री श्री.शु. 15 तिथौ श्री श्रेयांस नाथः प्रातः निर्वाणं सम्प्राप्तवान् । वैदिक पुराणेषु कथा वस्तु - रक्षाबंधनस्य वैदिक पुराणेष्वपि महत्त्वं वर्तते । अस्ति तावत्कथावस्तु तेषु पर्वविषये निम्नप्रकारं ।
1
एकदा देव दैत्यानां मध्ये परस्परं द्वादशवर्षपर्यन्तं सात्येन घोरयुद्धं भवतिस्म । यस्मिन्देवाः इन्द्रश्च पराजिता अभवन् । इन्द्रस्य दुखशांत्त्यर्थं श्रावणीपूर्णिमायां इन्द्राणी विप्रैः मन्त्रपूर्णकं स्वस्ति वाचनं कारयित्वा शक्रस्य दक्षिण करे रक्षासूत्रंननाह । अनन्तरं पुनः तैः सह युद्धं कृत्वा शक्रेण विजय: प्राप्तः तत्समयादारभ्य संरक्षणोद्देश्यात् सर्वैः रक्षासूत्रस्य बंधनं विधीयते । अतएव 'रक्षाबंधनपर्व' इति सार्थक नाम व्यवहियते ।
1
वैदिक पुराणेषु कथायाः रूपान्तरम् - यदा देवा: समुद्र मन्थनान्निर्गतं अमृतं पीत्वा अमराश्च भूत्वा दैत्येभ्य:लोकत्रयस्य राज्यमहरन् तदा दैत्या: अस्ताचले न्यवसन् । प्रदन्हादस्य पोता दैत्यनृपश्च बलिः दैत्यगुरुशुक्राचार्यमसेवत । प्रसन्नः शुक्र: बलिं विश्वजितं यज्ञमकारयत् । यज्ञान्ते यज्ञकुण्डात् एकः स्वर्णरथः, चत्वारः घोटकाः, शंखः ध्वजां, चाप:, तूणीर: दिव्यकवचश्चैते निर्गताः । बलिनृपः तुरंतमारुह्य चापादिभि: देवैः सह अयुध्यत् । पराजिताः देवा: मृग रुपाः सन्तः यत्र तत्र पलायिताः । बलिः लोकत्रयस्य राज्यमकरोत् । दैत्यराजदृढीकरणाय शुक्रः बलिं प्रति यज्ञशतविधानामादेशं चकार । तस्योपदेशेन बलिना प्रतिवर्षं यज्ञः प्रारब्धः । यज्ञान्ते प्रचुरदानमकरोत् । 99 याज्ञाः समाप्ता: । शततमयज्ञकरण काले देवमाता अदिति: अचिन्तयत्, अदितेः व्रत साधनया प्रसन्नः विष्णुः तस्यै वरं ददौ - आदिति: याचना कृता दैत्यराज्यविनाशः देवराज्यस्थापनं चेति । विष्णुना अदितिगर्भात् दशमेमासे पंचदशः वामनावतारः गृहीतः । वामनः ब्रह्मचारी भूत्वा (छात्रः) छलेन नर्मदातटे शततम यज्ञस्थले जगाम । बलिना सत्कारः कृतः । वामनेन पादत्रय भूमियाचनं
444
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org