________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ अनेन गणितेन 12 अंक प्रमितवषैः पर्वण: प्राचीनता ज्ञायते । इयद्वर्षेभ्यः पूर्वं श्रावणी पूणिमायां प्रात: नववादनावसरेऽस्य पर्वण: उदय: अभूत् । स: दिवसे वर्षेस्मिन्पुन: समायात: ।
श्री महावीरपार्श्वनाथ नेमिनाथ कृष्णराम चन्द्रादिभ्योऽपि प्राचीनतममिदं पर्व। जैन पुराणेषु इतिहासे चास्य पर्वण: कथा प्रसिद्धा । सामाजिक परम्परात: पर्वण: प्राचीनत्वं शिलालेख प्रभृतिभि रपि प्राचीनता द्योतते । वैदिक पुराणेषु अपि रक्षाबंधनकथा सद्भावात् प्राचीनत्वं ज्ञायते ।
___ पर्वण: रूपरेखा - प्राणिनां मानवानां वा परस्परं मैत्री भावस्य जाग्रति: , विश्वप्राणिनां सुरक्षाच पर्वण: समुद्देश्यम् । अस्य खलु नाम - "रक्षाबंधन"अर्थात् स्वपरसुरक्षाहेतो: मानसे प्रतिज्ञाग्रहणं, बाह्ये च सुत्रादिबंधनं यस्मिन्पर्वणि वात्सल्यपूर्वकं विधीयते तद् "रक्षाबंधन" पर्वं इति सार्थक नाम कथ्यते। अस्य खलु रूपत्रयं विद्यते -
__ 1. आध्यात्मिक रक्षाबंधनं, 2. व्यावहारिक रक्षाबंधनं, 3. व्यवहाराभास रक्षाबंधनं । यत्र द्वेष राग मोहकषायपाप व्यसनादि दुष्कर्मभ्य: ज्ञानावरणादिकर्मभ्यश्चात्मन: सुरक्षार्थं पौरुषं विधीयते अर्थात् आत्मपरिणाम शुद्धिः विधीयते तत्प्रशस्तं कल्याणकारकं प्रथमं आध्यात्मिक रक्षाबंधनं । आत्मनि मैत्रीभाव: वात्सल्य भावधारणं वा प्रथमं रक्षाबंधनम्।
आत्मभावविशुद्धये मैत्रीभावसमुत्पत्तये च श्रद्धापूर्वकं भगवत्पूजा प्रवचन भाषण कवितादिरूपं रक्षासूत्र बंधन तिलककरणोपहार प्रदानादिरूपं वा यद् बाह्यकर्म तथा परस्परं सद्व्यवहारः क्रियते तत्सर्वं निश्चयपूर्वकं व्यावहारिक रक्षाबंधनं पर्वणश्च, सांस्कृतिक रूपं विद्यते। मैत्रीभावोपयोगः, पारस्परिकसहयोग: समाजरक्षा, देशरक्षा, प्राणिरक्षा चापि अस्य व्यावहारिकरूपं विद्यते । द्वितीयमिदं रक्षाबंधनम्।।
___ यत्र क्रोधमोहमायाहिंसा व्यसन शत्रुभ्यः आत्मन: संरक्षणं तथा मैत्रीभावना, परोपकार भावश्च नास्ति श्रद्धापूर्वकं, केवल शब्दोच्चारणं, क्रियाकाण्डः, अंधविश्वासपूर्वकं पूर्वागत पराम्परानुकरणं व्यंजनादिभि: उदरपोषणमात्रं वा विधीयते तत्सर्वं लक्ष्यशून्यं निष्प्रयोजनं तृतीयं व्यवहाराभासरूपं रक्षाबंधनं विज्ञेयम् । रक्षाबंधनस्य रूपत्रयमध्ये प्रथम रूप द्वय मुपादेयं स्वपरहितकारकत्वात तृतीय रूपं तु प्रयोजन शून्यत्वात हेयं विद्यते। अनेन रूपेण राष्ट्रस्य समाजस्य त्यो पकारो न भवितुमर्हति । अनाथ विधवादीनामुद्धारश्च नो जायते ।
मानव जीवनस्य विवाहसंस्कारस्य पद्धतिः प्राचीनाचार्य: विरचिता | तत्र कङ्गणबंधनस्य रक्षाबंधनस्य नियोगोऽपि विधीयते । तस्यापि प्रयोजनं सूरिभिः कथितम् गृहस्थानां दैनिकषट्कर्मपालनम् जिनेन्द्र गुरुपूजनं श्रुतवचः सदाधारणम् ।
स्वशीलयमरक्षणं ददनसत्तपोवृंहणम् । इति प्रथितषक्रिया निरति चार मास्तां तवेत्पथ प्रथनकर्मणे विहित रक्षिकाबंधनं ॥ 6 ॥ अस्यां क्रियायामपि दैनिकषट्कर्मपालनेन मानव जीवनस्य रक्षाया:आत्म कल्याणस्य च प्रयोजनमिति सिद्धं रक्षाबंधनस्य समुद्देश्यं रूपरेखा वेति ।
जैन पुराणेषुरक्षाबंधनकथा मान्यता - अतिप्राचीनकाले भारते हस्तिनापुरे श्रीपद्म कुमारस्य नृपस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org