________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ कथित: लोकानां च कृते मनुष्यासादय: ।जैन परम्परायां श्री महावीर तीर्थङ्करस्य द्वादशसभानां हितोपदेशक: द्वादशाङ्ग विद्यापारङ्गत: गौतमगणेश: (महर्षि: गणधर:) पुराणेषु कथित: तस्य लोकगुरोः शुभागमनं अद्यैव श्री महावीर तीर्थंकरस्य विशालेसभास्थले षष्टिदिवसानन्तरं समभूत् अभूच्च महागुरोः गौतमस्य संप्राप्तौ सत्यां श्रीवर्धमानतीर्थङ्करस्य दिव्योपदेशस्य श्रीगणेश: विहार प्रांतीय राजगृहनगरस्य प्रथमपर्वते विपुलाचले, श्रावण कृष्ण प्रतिपदायां तिथौ । अतएव दिवसोऽयं (श्रावणस्य प्रथमदिवस:) “वीरशासनजयंती" इति नाम्ना पर्वपरम्परायां प्रसिद्ध: अत: गौतमगुरो: शुभागमनात्, बृहस्पतेश्चोपदेशप्रदानात् इयं गुरु पूर्णिमा कथ्यते ।
गुरु शब्दस्य द्वितीयोऽर्थ: श्रेष्ठ: अर्थात् मानव धर्मस्य शिक्षाकारितात्वाद् गुरुः श्रेष्ठः, गुरुशिष्य योग: श्रेष्ठ: । आष्टाह्निक पर्वण: अन्तिम दिवसेऽद्यैव देवा: नराश्च परमगुरोः परमात्मन: प्रकृष्टेन भक्ति (गुणाभिवादन) कुर्वन्ति । अत: इयं पूर्णिमा श्रेष्ठ पूर्णिमापि कथ्यते ।
गुरुशब्दस्य तृतीयोऽर्थः - प्रथम: धर्मगुरु: द्वितीय: विद्यागुरुः । गुरु: शिक्षक : उपाध्यायो वा प्राचार्य: प्राध्यापक: यस्य विद्यालये व्याख्यानं विधीयते । धर्मगुरुः सदाचारस्य शिक्षां ददाति |
गुरु शब्दस्य चतुर्थोऽय: - माता पिता इति मानवस्य प्रथमगुरु: माता, द्वितीय: गुरु: पिता नीतिकारैः कथितः ।गर्भकालात्प्रारंभिकशिक्षा प्रदानात्संस्कार विधानाद्वा माता - पिता च गुरुः । पिता पुत्रयोरपि व्यवहार: समीचीनो भवेत्, येन वंशपरम्पराया: मानवता याश्च विकासो भवेत् । गुरु पूर्णिमा विषयेऽस्मिन्प्रेरणां करोति।
गुरु शब्दस्य पंचमोऽर्थ:- दुर्भरः = अति भारयुक्त: अर्थात् - शिक्षक शिष्य संबंधः, पितां पुत्रसम्बंध: परम गुरुभक्ति: श्रेष्ठयोगः श्रमसाध्य: गुरुतर: न हि अल्प श्रम साध्यः, गुणैः महानं दुर्भरोवा । अत: पूर्वोक्तार्थ व्याख्यानात् इयं गुरुपूर्णिमा गुरुतर पूर्णिमा दुर्भरा इति च कथ्यते ।
गुरुशब्दस्यान्या व्याख्या - एकादशतमशताब्दे: संस्कृत साहित्यकारणे महाकविना श्री वादीभ सिंहाचार्येण स्वरचिते क्षत्रचूडामणिनामके नीतिकाव्ये गुरोः लक्षणं कथितम् -
रत्नत्रयविशुद्ध: सन्पात्र स्नेही परार्थकृत् ।
परिपालित धर्मो हि, भवाब्धेस्तारको गुरु: ॥1॥ यस्य खलु सत्यधर्मेश्रद्धा, निर्दोषज्ञानं, सदाचरणं, विवेकशीलता, विश्वमैत्री, परोपकारकृत्यं, धर्मनिष्ठा, जीवनदुखापहार कत्वं विद्यते स एव गुरुपदवाच्यः नान्यः । शिष्यलक्षणमपि कथितम् -
यः खलु गुरुभक्त: अन्यायापहारकः, विनयशीलः, धार्मिकः, सुधी, शांत प्रकृति: जागरूकः सदाचारी विद्यते स एव शिष्य पदयोग्यः । श्लोकः - गुरुभक्तो भवाभीतो विनीतो धार्मिक: सुधी: ।
शान्तस्वान्तो ह्यतन्द्रालुः शिष्टः शिष्योऽयमिष्यते ॥2॥
439
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org