________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ गुरु पूर्णिमा वीर शासन जयंती च भारतीय पर्व श्रेण्यां आषाढ शुक्ल पूर्णिमादिवसे 'गुरु पूर्णिमा' इति नाम्ना प्रसिद्ध पर्व विद्यते । अस्मिन्दिवसे बहुसंख्यक भारतीया: गुरुविषये विशेषानुष्ठानं कुर्वन्ति । वैदिक परम्परायां श्रमण परम्परायां चास्य पर्वण: विशेष मान्यता दृश्यते । गुरु शिष्य सम्बंधस्य स्मृतिदायकं नित्यता द्योतकं चेदं पर्व महन्निमित्तं । अस्य समयविशेषाच्च प्रमोद: भवति । कृत्यविशेषाच्च प्रेरणा लभ्यते । अनेन गुरुशिष्यपरम्परापि ज्ञायते ।
पिता पुत्र सम्बंधवत् गुरुशिष्य सम्बंधोपि विद्यते महान् । यथा पिता पुत्र योगेन कुल परम्परा तथा गुरूशिष्ययोगेन साहित्यपरम्परा धार्मिक परम्पराच संचालिता भवति । यदि पिता पुत्रस्य जन्मदाता तर्हि गुरुः शिक्षया जीवनसाफल्यस्य कर्ता विद्यते । अथ च पिता मानवदेहस्यनिर्माता गुरुश्च मानवताया: निर्माता प्रसिद्ध: । पिता खलु वर्तमान जीवनस्य संरक्षकः, गुरुश्च उभयजीवनस्य संरक्षकः। प्रदीयते च पित्रा भौतिकसम्पत्ति:, गुरुणा गुण सम्पत्ति: । अनेन मातापितृयोगापेक्षया शिक्षकयोगः श्रेष्ठतर: विद्यते।मानवजीवने पिता पुत्रवत् शिक्षकशिष्ययोगस्य महती आवश्यकताऽनेन पर्वणा तत्त्वदृष्टया च ज्ञायते । वर्तमानकाले शिक्षकशिष्यसंगते: हास: संजात: तेन तयोः विकार: दोषोत्पत्तिश्च दृश्यते । शिक्षकेशिष्ये च नाध्यात्मिक योग: किन्तु तयोः महती परिखा दृश्यते । अतएव शिक्षक शिष्ययो: द्रोह: द्रोहेण विद्यालयानाभवति: शिक्षायां च न्यूनता भवति ।शिक्षाहानौ राष्ट्रस्याध: पतनं मानवतायाश्च पतनं भवति । साम्प्रतं शिक्षासंस्थासु शिक्षकशिष्ययो: योग्यकर्तव्याभावात् अनुशासनस्य राष्ट्र महती समस्या समुत्पन्ना, तन्निवारकाय राष्ट्रस्य नेतार: चिन्तिता: सन्ति।
___ तस्या:समस्या: समाधानं हि उपाध्यायच्छात्रयो: मध्ये साक्षात्सम्बंधेनैव भविष्यति । अत: तयोः मध्ये साक्षात्सम्बंधस्यैवावश्यकता विद्यते । पूर्वकाले शिक्षासंस्थासु शिविरेषु वा शिक्षकशिष्ययो साक्षात्सम्बंध: आसीत् । कर्तव्य वृत्ति विवेकात्तदा अनुशासनं सदाचरणं, तेन च सम्यक्त्व ठनं बभूव | साम्प्रतं तु वैदेशिक पद्धत्याऽन्य कारणेन वा गत: प्राय: तयोः साक्षात्संबंध: । तयो:मध्ये शासक समिति प्रबंधकादीनां व्यवधानं विद्यते । नैतिकशिक्षयाः अभावात् अशिक्षित प्रभावात् संस्कारशून्यत्वाद्वा पक्षपातावेशाद्वा छात्राणां अनुशासनहीनता दृश्यते । इति कारण व्यवधानात्तयोः साक्षायोग: विनष्टः अधुना व्यवधान निराकरणात्तयोः साक्षाव्यवहारस्यावश्यकता विद्यते ।
___ न हि सर्वा वेदेशिक पद्धति: वैज्ञानिकपद्धति:वाऽ समीचीना - इति वदामि, परं देशकालानुपूर्वकंतस्याः परिवर्तनं प्राचीनार्वाचीन पद्धति समन्वय: अन्यो वा कश्चिदुपायो विवेकेनान्वेषणीयः । येन शिक्षक शिष्ययोः साक्षाव्यवहारो भवेत्।
साम्प्रतं गुरुशब्दस्य व्याख्या विचार्यते, संस्कृत शब्दकोषे हलायुधनामधेये गुरुशब्दस्यार्थाः कथिता:
"गुरुस्तु गीष्यतौ श्रेष्ठे गुरौ पितरि दुर्भरे" इति गुरुशब्दस्य प्रथमार्थ: गीष्यति: अर्थात् लोकानां गुरुः तीर्थकर: गौतम गणधर: देवानां वा गुरु: वृहस्पति: । वैदिक परम्परायांश्री वृहस्पति: देवानां कृते हितोपदेःशक:
438
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org