________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ किंच - पूर्वकाले कश्चित् विद्वान मैथिलदेशे पण्डित मण्डन मिश्र मिलनार्थं गतवान् । मिश्र गृहान्वेषणार्थ बाह्यप्रदेशस्थित कूपस्य निकटे गत्वा जलाकर्षण यत्नशीलां कांचिद् नारीम्प्रति हिन्दी भाषायां तेन विदुषा पृष्टमिदं, यत् “बाई जी ! (श्री पं. मण्डनमिश्र का घर कहाँ पर है !) इति तया तत्काले एकोत्तरं संस्कृतभाषायां प्रदत्तम् -"
स्वतः प्रमाणं परतः प्रमाणं, कीराङ्गना यत्र गिरो वदन्ति !
शिष्योपशिष्यैरुपगीयमान, मवेहि, तन्मण्डन मिश्र गेहम ॥ उक्तश्लोकं श्रुत्वा स लज्जित: सन्पण्डितमण्डन मिश्रगेहं जगाम ॥
किंच - एकेन पंचवर्षीय बालकेन भोजराज सभायां घोषणानुसारं “क्वयाम: किंकुर्म: हरिणशिशुरेवं प्रलपति " इत्यस्य समस्यापूर्ति कृत्वा महत्पारितोषकं प्राप्तम्।
एवं भोजराजेन विरचितश्लोकस्य पादत्रयं श्रुत्वा चतुर्थ चरणरचनायां बिलम्बे सति कश्चित्तस्करस्तत्समये स्वयमेव चतुर्थ चरणपूर्ति मकरोत् 'सम्मीलेन नयनयोन हि किंचिदस्ति' इति । भोजसमये कवि सम्मेलनं सभाकार्य शास्त्रार्थं नाटकप्रदर्शनं राज्यकार्य प्राय: संस्कृत भाषाया मेव बभूव। एतेन सुरभारत्या राष्ट्रभाषात्वं सिद्धअति।।
___किंच - श्री पाणिनिप्रभृतिसूरि विरचित वैयाकरण सिद्धान्तकौमुद्या: कृदन्त तद्धितकारक प्रकरण पठनेन विज्ञायते यत्पूर्वकाले सुरवाणी राष्ट्रभाषा जनसाधारण प्रचलिता आऽसीत्। या भाषा पूर्व प्रकृष्टोन्नतशीला आसीत् सा कथं साम्प्रतं राष्ट्रभाषायोग्या न, अपितु विद्यते एव ।
अद्यापि बहवो राष्ट्रनेतार: शामनाधिकारिणश्च वदन्तीदंयत हिन्दीभाषा यदि राष्ट्रभाषा न भवेत्तर्हि संस्कृतभाषा राष्ट्रभाषा भवेत् ।यत्श्च सा समस्तभाषा जननी विद्यते ।
___ अधुना गणतंत्रशासन विधानस्य नवनिर्मितस्य संस्कृत भाषाया नुवाद: संजातः। वैज्ञानिकैराविष्कृतनव्यवस्तूनां संस्कृतनामानि रचितानि भाषाविज्ञैः यथा वाष्पयानं = रेलगाड़ी । मसीगर्भा-फा. पेन इत्यादि ।नवपारिभाषिकशब्द निर्माणं च विहितम्।
भारतस्य गणतंत्रशासनाधिकारिण: उर्दू आंग्ल प्रभृतिभाषा स्थाने संस्कृतभाषाया उत्थानार्थं प्रयासं कुर्वन्ति, अतएवोत्तर प्रदेशे मैट्रिक परीक्षायां संस्कृत पत्र मनिवार्य, इंग्लिशपत्रं च वैकल्पिकं विहितम् अन्यप्रान्तेष्वपि शनैः - शनै: संस्कृतपत्रस्यानिवार्यतासंभविष्यति ।अत: संस्कृत विद्यालयेभ्योद्रव्यादि साहाय्यं प्रदीयते । राजकीय शिक्षाविभागेन । एवं संस्कृत भाषा राष्ट्रभाषायोग्या व्यवहारयोग्या च सिद्धा। उपसंहार
__ एवं प्रोक्तेन प्राचीनत्वेन नामश्रेष्ठवेन विश्वभाषा जननीत्वेन भाषावैशिष्टयेन साहित्य सृजेन राष्ट्रभाषायोग्यत्वेन भाषास्तवेन च देव भारत्या महत्वं लोके प्रसिद्धम्। अतो निखिल भारतीयैः संस्कृतभाषाया अध्ययनं विधेयमिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org