________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ आंग्ल-उर्दू-अरवी - फारसी प्रभृति भाषाभाषिणो वैदेशिका: केचिद् भारतीयाश्चापि कथयन्त्येवं, यत्संस्कृत भाषा मातृभाषा, सानार्थकरी, न व्यवहारोपयोगिनी च नवचेतनाकारिणीति तेषां प्रलापमात्रमस्ति। ये संस्कृत भाषां मृतभाषां वदन्ति ते स्वयं मृताः, न तेऽस्या रहस्यं जानन्ति अस्यां भाषायां खलु करूणवीर वीर रौद्र श्रृङ्गारहास्य वीभत्साद्भुतादिरसेषु यथायोग्यं देशकालवस्तु वृत्तापेक्षयाराजवर्णनं, राष्ट्रवर्णनं, दिग्विजयवर्णनं, युद्धवर्णनं, ऋतुवर्णनं, नगरवर्णनं, वैभववर्णनं, प्रकृतिवर्णन,नीतिवर्णनं,वीर नायकचरित्रादिकं च नव चेतनाकरं व्यवहारचातुर्यकरं प्रमोदकार कंच अवलोक्यते ।अस्याः खलु पतनं वैदेशिक शासन संस्कृति प्रभावाज्जातम् । राज्याश्रयो वैज्ञानिक साधनंचानया न प्राप्तं येन देशे तस्याः समुन्नतिभवेत् । एतेनास्यां मृतभापात्वं न सिद्धयति। साहित्यरचना
अमर भारत्यां खलु विपुलसाहित्यरचना पूर्वाचार्यवरैः कृता । अत्र साहित्यशब्दो व्यापकार्थ: । एतेन ज्ञायते न केवलं काव्यकलायां साहित्यसृजनं किन्तु सिद्धांतदर्शनाध्यात्मिक न्यायव्याकरण साहित्यकोषनीति ज्योतिषायुर्वेद धनुर्वेदादिविषयेषु ग्रन्थसृजनं विहितं । येन संस्कृत साहित्येन विश्वकल्याण मभूत् - भवति भविष्यति च । अतएव भारतवर्षो जगदगुरु विश्वचूडामणि: निगद्यते ।
दि. 11 दिसम्बर मासे 1948 ईशवीयाब्दे पेरिसविश्वविद्यालयस्य संस्कृत प्राचार्य (प्रोफेसर) महोदयेन 'लुईरेनू' नाम केन अन्नामलाई विश्वविद्यालये स्वभाषणावसरे संस्कृत भाषाया महत्त्वं जगदे। “यत भारतस्य संसारे महदगौरवत्वमरित, यत: अत्रत्यमहीतले सुदीर्धकालात्प्रशस्तनैतिक परम्परा प्रशस्ताध्यात्मिक परम्परा च सम्प्राप्ता विद्यते । सा श्रेष्ठपरम्परा संस्कृत साहित्यकोषे सुरक्षिताऽस्ति| अग्रे भवता प्रोक्त यद्भारते तु तामिल बंगला मराठी प्रभृतिप्रादेशिका भाषाणां साहित्यमत्युन्नतमस्ति परं भारते एकत्वकारिणी भारतीयसंस्कृति । निर्माणकारिणी च संस्कृत भाषैव विद्यते ।
__ अन्यं च - भारते संस्कृतभाषैव तस्या अखिल धार्मिक दार्शनिक वैज्ञानिक परम्पराया आधार भूमि:, यथा भारत उन्न्तसिंहासने समासीनोऽस्मिन् । स्पष्टशब्देषु भारते भुवनस्य सर्वोत्तमाद्वितीय संस्कृतिरस्ति । " साहित्यसागर पारंगतैर्महर्षिभिः षड्दर्शन कर्मकाण्ड धर्मस्तोत्रकाव्यालङ्कार सुभाषित नाटक नीति संगीत पाकशिल्पकला विषयेषु सहस्त्र लक्ष्यसंख्यका ग्रन्थाः संस्कृत भाषायां विनिर्मिता: वैदेशिक वैज्ञानिकै: भारतीय साहित्यं सम्प्राप्यैव विज्ञान समुन्नतिः कृता । हन्त साम्प्रतं सम्पूर्ण साहित्यं समुपलब्धं नास्ति। राष्ट्रभाषायोग्यत्वम्
केचित्कथयन्ति यदेववाणी राष्ट्रेऽव्यवहार्या, ते न सम्यग्वादिन: । यस्या: पुत्री हिन्दी राष्ट्रभाषायोग्या, सा माता संस्कृतवाणी कथं न राष्ट्रभाषायोग्या, अपितु सम्यक्रूपेणास्ति यस्याः शब्दकोष: कारूँ देशीय धनागार तोऽपि विशाल: यश्च कोष: हिन्दी भाषया व्ययीकृतस्तथापि अक्षयराशि: दृश्यते । प्राचीनकाले सुरभारती जनसाधारण परिचिताऽऽसीत् । राष्ट्रेसाधार प्रचारोऽभूत ।
एकदा शिबिकारूढो भोजराज: क्वचिद् गमनसमये शिबिकाबाहकान्धीवरान्प्रति जगादभूरिभारभराक्रांतो बाधति स्कंध एषते ! धीवरा: कथयामासुः - न तथा बाधते स्कंधों यथा बाधति बाधते॥
-436
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org