________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ आंग्लहिन्दी प्रभृति भाषासु एकवचनं - बहुवचनमेव किन्तु देववाण्यां ततोऽपि द्विवचन मधिकं विद्यत इति सूक्ष्मविषयत्वाद् वैशिष्टयम् ।
___किंचान्यभाषासु स्थूलकालत्रये (भूते-वर्तमाने भविष्ये) एव क्रिया प्रयोगः, परं सुरभारत्यां देशकालभेदेषु क्रिया प्रयोगः इति सूक्ष्म विषयत्वाद् वैशिष्ट्यम्।
किंचान्यभाषासु वाच्यद्वयं विद्यते, देववाण्यां तु वाच्यत्रयं (कर्तृ-कर्म भावभेदात्) दृश्यते। अस्यां खलु कर्म कर्तृ प्रयोगोऽपि जायते । अस्यां हि संज्ञाशब्दतोऽपि क्रियारचना भवति यथा- कृष्ण इवाचरतीति कृष्णति।
देववाण्यां कृदंतप्रकरणे धातुप्रत्यय द्वारा संज्ञाशब्द रचना - यथा करोतीति कारक: कर्ता इति । एकैकस्माच्च धातो: विविधशब्दाना मुद्भवो भवति, यथा गमधातो:, गौः, गन्ता, गति: गमनं, गत:, गामी, गन्तुं गमकः, गम: इत्यादि । शब्द रचना प्रसिद्धा ।
संस्कृतव्याकरणस्य तद्धितप्रकरणे संज्ञाशब्दत: सहस्त्रसंख्यका: संज्ञाशब्दा: भिन्नार्थे एकार्थे वा सिद्धाः भवन्ति । एकेन संज्ञाशब्देन भिन्नार्थे बहुसंज्ञाशब्द रचना यथा - गर्गाणां छात्रा गार्गीया: हितेऽर्थे गर्गीयम्, आगतेऽर्थे गर्गरूष्यं गार्ग वा गार्ग्य: संघोऽङ्कों घोषो वा गार्ग : गार्गम् वा, अपत्ये-गाायणः गार्योवा, मृते-गायें: गार्यो जाल्म: । गोत्रापत्ये- गाायण: गार्यो वा युवापत्ये-गाायण: गार्या अपत्यं गार्गो गार्गिको वा जाल्मः, गार्गीपुत्रकायणिः, गार्गीपुत्राणिः, गार्गीपुत्रि: इत्यादि । एकेन शब्देनैकार्थे शब्द रचना यथा - अनुकम्पितो देवदत्तो - देविक: देविय:, देविल: देवदत्तकः,देवकः दत्तिकः, दत्तिय: दत्तिल:, दत्तकः, देवदत्त:, दत्तः, देव: ।अन्यार्थे - दैवदत्तः, देवदत्तीय: आगते - देवदत्तरूष्यं. देवदत्तीयम्, दैवदत्तं, देवदत्तमयमित्यादि बहुसंज्ञाशब्दसिद्धि: नान्यभाषासुवैशिष्टयमिदं दृश्यते।।
संस्कृतभारत्यां शब्दसमासरचनापि विचित्रा भवति । मूलत्वेन समासभेदा: पंच तेषामपि दीर्घमध्यमजघन्यादिभेदेन बहुभेदा: भवन्ति । यादृशीशब्द संक्षेपक्रिया संस्कृते, न तादृशी क्रिया अन्यभाषासु। अल्प समास रचना यथा - भूतपूर्व: अध्यात्मम्, राजपुरुषः, दिगम्बर:, पितरौ इत्यादि।
दीर्घसमास रचना यथा - "मनसिजविजय सहकार चतुर सहकार पल्लवतल्लजपरिचर्वणगर्वायमारण कलकण्ठयुव कण्ठोक्तपथिक जनसंदोहजीवित संदेहा:" इति ।
किंच - काव्यकलाया यद् गम्भीरवर्णनं, सूक्ष्मवर्णनं, सरसवर्णनदेवभारत्यां विद्यते न तादृशवर्णनं, उर्दू हिन्दी वैदेशिकभाषासु । श्रृङ्गारादिनवरसवर्णनं, ध्वन्यादिकाव्यभेदवर्णनं, माधुर्यादिगुणवर्णनं, गौडी प्रभृतिरीतिवर्णनं, अलङ्गारवर्णनं, काव्यदोषवर्णनं, छन्दोभेदवर्णनं, उपनागरिकादिवृत्तिवर्णनं, साङ्गोपाङ्गमपूर्वं विज्ञानोत्पादकं विस्मयकारकं देववाणी एव दर्शयति।
किंच उपसर्गवशाद् धातुनामनेकार्थोऽस्या वैशिष्टयम्, यथा प्रहार- आहार-संहार-परिहार विहार इत्यादि । शब्दानामपि विविधार्थ: पर्यायनामानि संयुक्तनामानि च भवन्ति । संस्कृते धातुसंज्ञाशब्दानामपार राशि: भाषाविस्तारतां लोके प्रवदति । अतएव स्तोकाक्षर पद वाक्य श्लोक प्रयोगेण गम्भीर सरसमहदर्थ प्रतिपादनं सिद्धयति । अल्पाक्षरै: महदर्थवर्णनं, सुरभारत्या एव वैशिष्टयं नान्यभाषाणाम् ।
-435
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org