________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ हेतो: संस्कृत शिक्षणं पाठयक्रमेऽनिवार्यं विहितमष्माभिः।" एतेन ज्ञायते यत्संस्कृत भाषातः एव पश्तोभाषायाः समुत्पत्ति:।
सिन्धीभाषायामपि संस्कृत बाहुल्यं तत्प्रयोगेण तत्साहित्येन तच्छवणेन वा परिज्ञायते। हिन्दी भाषा तु 'संस्कृत पुत्री' एव कथ्यते भाषाविज्ञैः यत: हिन्दीभाषया स्वजनन्या: संस्कृतभाषाया: लिपि: (नागरी) व्याकरणं शब्दकोषः अलङ्कार रसगुणरीतिध्वन्यादिकं सर्वस्वंगृहीतम् परं देववाणी दरिद्रा कुपिता च न जाता, प्रत्युत स्वपुत्री हिन्दी भाषाया: सर्वत: समुन्नतिं दृष्ट्वा प्रफुल्लिता भवति समृद्धिशालिनी च भवति । स्वसन्ततिम्प्रति मातुः कर्त्तव्यमिदम् । आधुनिक हिन्दी भाषाया देवभाषयैव परिष्कृता सुसंगता रमणीया संस्कृत शब्द बहुला च शोभते । यस्याः पुत्री समुन्नता दृश्यते, तस्य महत्वं वैचित्र्यंअक्षयत्वं च स्वयमेव सिद्धम् । एव मन्या भाषा वैदेशिका: प्रान्तिका अपि संस्कृत भाषात: प्राय: समुत्पन्ना: । अतएव संस्कृतभाषा सर्वभाषा जननी कथ्यते। किंच - आध्यात्मिकनीति काव्य कलाज्योतिषायुर्वेद प्रभृति शास्त्रेषु कल्याण सामग्री संस्कृत भाषायामेव प्राय उपनिबद्धा, अत: संस्कृत भाषा जननीवत्कल्याण कारिणी लोकसंरक्षका च, नान्यभाषासु इयती कल्याणसामग्री बाहुल्येन मौलिकतया च विद्यते- इति हेतोरपि देवभारती जननीपदयोग्या नान्यभाषा उक्तंच -
शान्तिक्षमामार्दव सदगुणोधान, सदास्वभक्तान्बहुशिक्षयन्ती ।
समस्त भाषा जननी त्वमेव, महर्षिवृन्दै रतिवन्दनीया ॥॥ देववाणी वैशिष्टयम्
प्रचलितान्य भाषात: संस्कृतवाण्यां महवैशिष्टयं विद्यते। अस्या: नागरी लिपि: प्रत्यक्ष दर्शने सौन्दर्य, लेखने सरलत्वं, भाषणे स्पष्टतां श्रवणे च माधुर्यं धत्ते । यदेव कथ्यते तदेव लिख्यते: यदेव लिख्यते, - तदेव कथ्यते । यथा - इंग्लिशभाषायां Light इति लिख्यते, 'लाईट' इति च कथ्यते इति, न तथा संस्कृतभाषायाम्।
आंग्लहिन्दी प्रभृतिभाषासु अ इ उ ऋ ल इत्येषां स्वराणां प्रत्येकं भेदद्वयमेव कथितं, परं अस्यां अइ उ इत्येषां 18 भेदा: । ऋ लु इत्यनयो: 30 भेदा: । ए ओ ऐ औ इत्येषां 12 भेदा: प्रोक्ताः। व्यंजनवर्णानामपि स्वरभेदेन द्वादशाक्षरी भवति । स्वरव्यंजनवर्णानां उच्चारणस्थानानि कण्ठादीनि तथा उत्पत्तिप्रयत्नेषु पंचाभ्यन्तरप्रयत्ना:, एकादशबाह्यप्रयत्नाश्च संस्कृतव्याकरणे सूक्ष्मरीत्या कथिता:, अत: संस्कृतवर्णाना मुच्चारणं सावधानतया नियतरूपेण च भवति । केचिद् वैदेशिका भारतीयाश्चापि कथयन्तियत्
आंग्लभाषायामेव उर्दू भाषायामेव वा शब्दोच्चारणकाठिन्यं वैशिष्ट्यं च विद्यते, अतएवानयोः प्रभावकत्वं क्रांतिकारित्वं च दृश्यते इति, ते तु संस्कृतास्वादशून्या: स्वपक्षपोषकाः।
__ आंग्ल- उर्दू भाषापेक्षया संस्कृत भाषायां वर्णोच्चारणकाठिन्यं, प्रभावकत्वं क्रांतिकारित्वं च प्रचुरतया विद्यते ।पठन्तु अनुभवन्तु च आंग्ल उर्दू भाषाभाषिणो वैदेशिका: संस्कृत ग्रन्थान् ।
किंच देववाण्यां संज्ञाशब्दस्य 24 रूपाणि नियत रूपेण प्रायो भवन्ति । विकल्पतश्चातोऽष्यधिक रूपाणिजायन्ते । धातूना मपि प्रत्येकपदस्य 90 रूपाणि, उभयपदस्य 180 रूपाणि नित्यतया भवन्ति । वैकल्पिकरूपेण तु अतोऽप्यधिकरूपाणि भवन्ति । तेषां सर्वेषां शब्दधातुरूपाणां नियमविधायकैः सूत्र: सिद्धिाकरणशास्त्रे भवति, इति सूक्ष्मतरविषयः । नान्यभाषासु रूपाधिक्यं रूप सिद्धिर्वा इयती।
-434
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org