________________
कृतित्व / संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ जर्मन भाषावत् इत्यादि, न तथा देशकाल भेदेन संस्कृतभाषायाः नामकरणं, किन्तु लोक व्यवहारे प्रचलनार्थं महत्वद्योतनार्थं च श्री उमास्वामि व्यास वाल्मीकि शाकटायन पाणिनिकुमार दासप्रभृतिभिः पूर्वाचार्यै: 'संस्कृत भाषा' इति नामप्रयोगः कृतः । व्याकरणे अस्य व्युत्पत्तिः- समुपसर्गपूर्वक कृ धातोः क्त प्रत्यये सति संस्कृत मिति, अर्थात् संस्कृत भाषैव नियमादिभिः संस्कृता निष्पन्ना, परिष्कृता सुसंगता, इति नाम सार्थकयं दृश्यते । न खलु विविध भाषा वदस्या अनियामकत्वं, अतएव देशकालभेदेन बहुशताब्दीतः साम्प्रतमति भाषायामस्यां प्रायः किंचिदपि परिवर्तनं न जातं, किन्तु यथापूर्वं स्थिरत्वं परिष्कृतत्वं च दृश्यते । यथाऽन्यभाषाणां लोके देशकाल भेदेन बहुकाले गते परिवर्तनं भवति, न तथा संस्कृत भाषायाः परिवर्तनं जायते सर्वाङ्गीणात्वात्सुसंस्कृतत्वात्सुसंगतत्वाच्च । इयं च भाषा "देव वाणी अमर भारती” इति कथ्यते नान्यभाषा।
उक्तं च
“संस्कृतं नामदेवी वागन्याख्याता महर्षिभिः" इति काव्यादर्शे एव मुक्ताभिधानप्रसिद्धत्वे नान्यभाषातो महत्वं वैशिष्टयंच संस्कृतभाषाया: सिद्धम ।
भाषाजननी
शताब्दीकालानन्तरं देशकालप्रभावेण समये - समये मानवसंततिवत्संस्कृत भाषात: प्रादेशिक देशीय वैदेशिक सर्वभाषाणां प्राय उदयो जातः । यूरोपमहाद्वीपस्य लैटिन ग्रीकादिप्राचीन भाषा अपि देववाण्याः समुत्पन्नाः । प्रोक्तंच
“अतएव संस्कृतभाषायाः सकाशादेव पुरातनीनां भाषाणामुत्पत्तिर भवत् । सुदूरेषु यूरोपादिदेशेषु पूर्वं या: खलु लैटिन ग्रीकादयो भाषाः प्रचलिताः आसन या: खलु "क्लासिकल " संज्ञार्हास्ताः सर्वा अपि अस्याः एव देवभाषाया: समुत्पन्नाः । न केवलं वयमेव परं सुयोग्याः पाश्चात्यविद्वांसो मोनियरविलियम्स - प्रोफेसर मैक्समूलरप्रभृतयोऽपि स्पष्टमिदं संमन्यन्ते" इति काशी सुप्रभातेऽष्टमे वर्षे प्रथमेऽङ्के दशमे पृष्ठे।
-
-
एशिया महाद्वीपस्य भाषा अपि संस्कृतभाषातः समुत्पन्नाः । संस्कृत व्याकरणतः सर्वभाषाव्याकरणस्योत्पत्तिः, व्याकरणं च भाषानियामकं प्राणसदृशं भवति । अपि च संस्कृतशब्दानामपि विविधभाषासु समतत्समतद्भवापभ्रंश रूपेण बाहुल्यं दृश्यते, एतत्सर्वं तत्तद्भाषाक्षेत्रे धातुशब्दकारक प्रत्यय लिङ्ग वचनकाल समासादि प्रयोगेण सम्यक् ज्ञायते ।
-
Jain Education International
अफगानिस्तानस्य राष्ट्रभाषा “पश्तो इति नाम्रा प्रसिद्धा, तत्र संस्कृतभाषाया रूपत्वमेव विद्यते । अतएव काबुल विश्वविद्यालये संस्कृत भाषा शिक्षणं अनिवार्य संजातम । विषयेऽस्मिन् 1948 थिष्टाब्दे 16 दिसम्बर मासस्याङ्के अमर भारत पत्रे विशेषवृत्तं प्रकाशितमभूत्, तस्य संस्कृतानुवादेऽयं लिख्यते -
"अफगानिस्तानस्य काबुल विश्वविद्यालये कृतानिवार्य संस्कृत शिक्षण विषये भारतस्थितेन अफगानिस्तानराजदूतेन मि. गुलाम मोहम्मद खान महोदयेन पत्रमेकं मध्य प्रान्तीय धारा सभाध्यक्ष महोदयं श्रीघनश्याम सिंह गुप्तं प्रति प्रेषितम् । तद्वृत्तं विज्ञाय श्रीघनश्याम सिंह गुप्तेन स राजदूतः पृष्ठः, यत्काबुल विश्वविद्यालये संस्कृत शिक्षणं अनिवार्य कथं विहितं ! राजदूतेन पत्र द्वारा प्रेषितं तस्योत्तरं यदफगानिस्तानस्य 'पश्तो' भाषायां संस्कृतभाषाया बाहुल्यं विद्यते । पश्तो भाषा वर्तमाने ऽधिक वैज्ञानिका परिष्कृताच भवेदिति
433
For Private & Personal Use Only
www.jainelibrary.org