________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ
संस्कृतभाषाया: महत्वम्
विषयप्रवेश:
लोके शब्दो द्विविध: प्रसिद्धः, भाषात्मक: अभाषात्मकश्च । तत्र: मेघादिजनितशब्दोऽभाषात्मकः । भाषात्मकशब्दोऽपि द्विविध: अक्षरात्मकः अनक्षरात्मकश्च । तत्रानक्षरात्मक: पशुखगमुखोत्पन्नो लोके सर्वे: श्रूयते।
__ अक्षरात्मकः शब्दो भवति प्राकृतसंस्कृतभाषादिरूपः । हृदयोत्पन्नानां विविधविचाराणां व्यक्तये । तावद्भाषाया आवश्यकता भवति। न हि भाषामन्तरेण कश्चिज्जनः प्राणी वास्वविचार प्रकटनाय समर्थोऽस्ति। साच भाषा देशभेदात् कालभेदा द्वाबहुप्रकारा । प्राकृत संस्कृत व्रज बङ्गाली, गुजराती, गन्धारी, प्रभृतिमहाभाषासु अष्टादशसंख्यकासु, सप्तदशक (700) लघुभाषासु, आधुनिकविश्वप्रचलितासु चांग्लफारसी जर्मन प्रभृतिभाषासु संस्कृत भाषैव अतिप्राचीनाऽतिश्रेष्ठा शोभते।
प्राकृतभाषासु मानवानां स्वभाविकी भावव्यक्तिकारिणी भाषा, अत: प्रकृतिजन्या (स्वभावजन्या) प्राकृतभाषा कथ्यते, तस्या: प्राचीनत्वं पूर्ववर्तित्वं च स्वत: सिद्धमेव विद्यते। प्राचीनता
तत: विकसितासु भाषासु संस्कृतभाषाया एव प्राचीनत्वं, संस्कृतभाषायाः उदयः कदा कुत्र कोदृशोऽभूदित्यस्य निर्णय: सप्रमाणं वक्तुमशक्य: तथापि साहित्यान्वेषकैः संस्कृत साहित्य ग्रन्थैः प्राप्तेतिहास ग्रन्थैश्चास्या प्राचीनत्वं श्रेष्ठतमत्वश्च प्रसिद्धम् उक्तं च “संसार की समग्र परिष्कृत तथा उपलब्ध भाषाओं में संस्कृत भाषा सब से प्राचीन है" "इस भाषा का प्राचीन स्वरूप पाश्चात्यों की प्राचीनतम भाषाओं से और पारसीकों की जेन्द, अवेस्ताग्रन्थों की भाषा से बहुत कुछ सादृश्य रखता है" इति - संस्कृतसाहित्यस्य संक्षिप्तेतिहासे द्वितीय पृष्ठे
किञ्च - जैन बौद्धवैदिकसंस्कृतिदर्शनसिद्धांत प्रदर्शकं प्राचीनसाहित्यं प्राय: संस्कृतभाषायामेव तत्तदाचार्यवरै विनिर्मितम् । अतो देववाण्या: प्राचीनत्वं सर्वभाषाभ्यः दृढ़तरं सिद्धयति। किञ्च प्राचीनशिलालेखास्ताम्रपत्राणि धातुमुद्राश्च संस्कृतभाषायां प्राप्ताः पुरातत्वान्वेषकैः । एवं प्राचीनत्वेन तस्या महत्वं लोके व्यज्यते। कविवर श्रीमथुरानाथ साहित्याचार्य महोदयेन स्वलेखेकथितं? "संस्कृतभाषायाः गौरवमुपरित: कदाचिन्न मन्येरन्नवसभ्यमहाभागाः, परं साम्प्रतमपि सेवाविषये प्राचीनता गौरवदृष्टयाऽवलोक्यते । यस्य हि अधिकारिणः सेवाकार्यं यावत प्राचीनं सिद्धयति तावदेव तस्याधिकार महत्वमभिमन्यते । ततश्च साधारणविषयेष्वपि प्राचीनताया एवं गौरवमधुनापि स्वीक्रियते भवद्भिः, तर्हि भगवत्याः सुरसरस्वत्या एतावत्प्राचीनतां स्वीकृत्यापि तत्कृतं महत्वं कथं नाङ्गीकरिष्यते " नामकरणवैशिष्टयम्
यथा लोके प्रचलित विविधभाषाणां देशभेदेन कालभेदेन वा नामकरणं दृश्यते जर्मनदेशेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org