SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ कृतित्व/संस्कृत साहित्य मनीषी की कीर्ति स्मृतियाँ ___ एकोनविंशशतके (1900 शतक) पेरिसनगरे श्री हेमिल्टन महोदय: संस्कृतभाषाया: महान् विज्ञ: अभूत् । 1814 ईशाब्दे पेरिसविश्वविद्यालये संस्कृत साहित्यस्य पठनं प्रारब्धम् । फ्रांसदेशीय: श्रीवर्गेन्यमहोदय: आजीवनं ऋग्वेदस्य सम्यक् अध्ययनं विधाय स्वकीयं विशिष्ट समालोचनं प्रकाशितवान्। जर्मनीदेशे संस्कृताध्ययन परम्परा 1900 शतकस्य प्रथमचरणे एव प्रारब्धा संजाता । जर्मनदेशीय: मैक्समूलरमहोदय: महता परिश्रमेण ऋग्वेदस्य संस्करणं प्रकाशयामास । अत: जर्मनदेशे अयं खलु पितामहः कथ्यते। इटलीदेशे संस्कृताध्ययन परम्परा षोडशशतके एव समारब्धा । हालैण्डदेशे श्रीभर्तृहरि विरचितयो: वैराग्यशतक नीतिशतकयो: उक्त भाषायां प्रकाशनं 17000 तमे शतके एव अभूत्। इंग्लैंड देशीय: वंगप्रांतस्य भूतपूर्व राज्यपालः वारेन हेस्टिंग्समहोदय: संस्कृतसाहित्याध्ययनं भृशं वर्धतेस्म। अमरीका देशे संस्कृताध्ययनं सर्वप्रथमं 1841 ईशाब्दे येलविश्वविद्यालये प्रादुर्बभूव । सर्वे विद्वांसः कथयन्ति 5 यथानाम तथागुणं विद्यते। तात्पर्य - संस्कृतभाषा व्याकरणनियमै: संस्कृता - निर्मिता, अत: संस्कृत इति कथ्यते। देववाणी अतिरमणीया भाषा विद्यते । कस्यचिद् वस्तुनः प्रदेशस्य वा वर्णनं संस्कृतवाण्यां यावत्सुंदरं भवति, तावत् अन्यभाषासु न भवति । संस्कृतभाषायां न्याय - साहित्य व्याकरण - धर्म - ज्योतिष - आयुर्वेद प्रभृतिशास्त्राणां रचना गद्य पद्य रीत्या शोभतेतराम। वेद - उपनिषद् - रामायण- महाभारत प्रभृति प्राचीन शास्त्राणां व्याख्यानं देववाण्या महत्त्वपूर्ण कल्याणकरं च विद्यते। सुंदरच्छन्दसां अलंकार - गुण - लक्षण - रीति ध्वनीनां च प्रयोगः यादृशः संस्कृतवाण्यां दृश्यते, तादृशः विविधभाषासु दृष्टिगोचरो न भवति । अतएव सर्वभाषाणां साहित्येषु संस्कृत साहित्यस्य महती प्रतिष्ठा प्राचीनता च विद्यते। संस्कृतभाषाया: ज्येष्ठ पुत्री हिन्दी भाषा साम्प्रातं भारतवर्षस्य राष्ट्रभाषापदेन शोभते । भारते तस्याः सर्वदा व्यापक प्रयोग: भवति । अतएव ज्येष्ठपुत्रीमहत्त्वेन मातुः संस्कृत भाषायाः महत्त्वं स्वयमेव अधिकं शोभते । अस्या:भाषाया: विशाल शब्दकोष: विद्यते, अत: इयं भाषा समृद्धा भाषा, न दरिद्रा, नापि निर्बला । अतएव लोके संस्कृतभाषायाः अतिमहत्त्वं प्रसिद्धम् । किञ्च - संस्कृतभाषाया: विशेषता1. देववाणी विश्वस्य प्राचीनतमा वैभवशालिनी च भाषा | 2. भारतीयसंस्कृते: साहित्यस्य च परम्पराया: गंगोत्री। 3. अमरभारती लोकस्य समस्तभाषायां जननी विद्यते। 4. इयंखलु राष्ट्रभाषाः प्रान्तीय भाषाणां च उन्नतिकारिणी । 5. संस्कृतवाणी भारतस्य अखण्डताया: प्रमुखं साधनं विद्यते । ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012072
Book TitleDayachandji Sahityacharya Smruti Granth
Original Sutra AuthorN/A
AuthorGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
PublisherGanesh Digambar Jain Sanskrit Mahavidyalaya Sagar
Publication Year2008
Total Pages772
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy