________________
कृतित्व/ संस्कृत
1
साहित्य मनीषी की कीर्ति स्मृतियाँ श्रुत्वा निर्णयात्मकसमताभावं स्थापयति वात्सल्यं चापि । किं च प्रमाणनयहेतुभिर्वितर्कं विधाय वस्तुनों ऽशज्ञानेन सम्पूर्णज्ञानं प्रति पादयति सोऽनेकान्तवादः | अतः सकलवस्तुतत्त्वनिर्णये न्यायं करो न्यायाधिपतिः स्याद्वादः । इदमपि वैशिष्ट्यं यत् स्याद्वादः सत्यताया असत्यतया सह समीकरणं नैव करोति, नासत्यपक्षं गृहणाति । किन्तु स वस्तुनि भाषणे वा सत्यान्वेषणस्य कुशलनिरीक्षकत्वं दधाति । दैनिकजीवने स्याद्वादः
स्याद्वाद सिद्धांत: केवलं शास्त्रलिखित: शब्दवाच्यो वा न ज्ञातव्यः । तस्योपयोगोऽपिसाम्प्रतं वादविवादे जयपराजये हठवादेऽसत्ये दुरभिप्राये वा न विधेय:, अपि तु परीक्षाप्रधानो मानवो दैनिककार्येषु गम्भीरविचारेषु व्यवहारे वस्तुनिर्णये वार्तालापे च विधेयः । येनावश्यकतापूर्तिः समस्यानां समाधानं दैनिकनिर्वाहश्च कुशलता भवेत् । तथाहि - गृहकार्येषु, भोजने, यात्रायां, व्यापारे, व्यवहारे, कार्यालये, दाने, सेवायां व्यायामे च यथाकाले यथास्थाने स्वभावता एव भवत्यपेक्षावादस्योपयोगः कर्त्तव्यश्च । यद्यपि तत्तत्कार्येषु 'स्यात्' (अपेक्षा) शब्दस्य कथनं नैव भवति तथापि गुप्तत्वेन तस्य सम्बंधो ज्ञातव्य:, सर्वत्र तस्याध्याहारो जायते: यथा कश्चित्पुरुषः स्वपुत्रं प्रति वदति, हे पुत्र ! इति । यद्यपि, विवक्षाकथनमत्र नास्त्येव तथापि तस्या अन्तर्हितत्वेन सम्बन्धो विद्यत एव यतश्च स एव पुत्रः स्वपुत्रा पेक्षया जनकोपि प्रसिद्धः अन्यथा व्यवहारा भाव इष्टापत्तिश्च स्यात् । एवं सर्वकार्येषु विज्ञेयम् ।
किञ्च सुयोग्ययुवकापेक्षया पाणिग्रहणं वरम्, बालकवृद्धापेक्षया तदवरम् । स्वस्थजनाय स्नानं हितकरम्, रुग्णजनायाहितकरम् । शक्तिमतेऽन्नं शीतजलं च बलप्रदम् सन्निपातदिरोगिणे तदुभयं मरणकारणम् । मात्रापेक्षात औषधं जीवनकारणम्, मात्राधिक्यापेक्षया तन्मरणकारणम् । न्यायेन धनोपार्जनं युक्तमन्यायेन तदयुक्तम् । संयमेन वस्तुभोगो वर:, न वरोऽसंयमेन । योग्यसमये कार्य वरम्, असमये न वरम् क्षेत्रकालापेक्षया वार्ता सम्यक्, तदनपेक्षया चासम्यक् । समये निद्रा सम्यक् अकाले न सम्यक् । मात्रायां व्यायामः समीचीनः, अमात्रायामसमीचीन इत्यादि ।
1
एकदा अकबरनृपेण विनोद प्रसङ्गे श्यामपट्टे (Black board) आयत (दीर्घ) रेखां कृत्वा वीरबलं प्रति कथितम् - “इमां रेखाममार्जयित्वा हस्वां कुरुषे चेत्त्वमसि बुद्धिमान" इति । मन्दहास्येन वीरबलेन तस्या रेखाया अधोभागे तदपेक्षया दीर्घरेखा बिलिखिता, इति स्याद्वादशैलीमाश्रित्योत्तरप्रदाने अकबरनृपः प्रसन्न सन् वीरबलाय पारितोषिकं प्रदत्तवान् । अतो मनोविनोदेऽपि स्याद्वादस्योपयोगः फलप्रदो भवति ।
कस्मिंश्चित्समये कक्षायां शिक्षकमहोदयश्छात्रं प्रति प्रश्नं पृच्छति अ-ब-स इति श्रेण्यां स्थि वर्णत्रये 'ब' कस्मिन्भागे स्थितः ? छात्रः कथयति 'स'अपेक्षया 'ब' दक्षिणभागे 'अ' इत्यपेक्षया 'ब' वामभागे विद्यते । अतो 'ब' इति वर्णोः दक्षिणेऽपि वर्तते वामेऽपि च - इति स्याद्वादपद्धत्या छात्रस्योत्तरं श्रुत्वा प्रमुदितः सञ्जातः शिक्षकमहोदयः ।
इत्थं द्रव्यक्षेत्रकालभावापेक्षया दैनिकजीवनस्य व्यवहारेऽपि कुशलत्वेन च सम्पद्यते । न तेन बिना पदमपि गन्तुं समर्थो मानव:, यथा दधिमन्थनं न भवितुर्महति प्रधानगौण क्रियामन्तरेण ।
Jain Education International
429
For Private & Personal Use Only
www.jainelibrary.org