________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ परोपकारे भोजनादिदानेषु चिकित्सायां व्यायामे विद्याध्ययने सर्वकार्येषु च द्रव्यक्षेत्रसमयभावबलापेक्षपा विवेकेन च कृत: परिश्रम: सफलतां जनयति ।
अपि च मानवचित्तस्योदारतां विचारसाम्यं सहिष्णुतां जनसेवां च समुत्पादयति सोऽनेकान्तवाद: । लोकविधाने ऋतुवर्षमासपरिवर्तने च सोऽपेक्षावादः शान्तिप्रदं कार्यक्रमं प्रदर्शयति ।
किञ्चलोके हि विविधमान्यतानां विचाराणां चाविर्भाव: सदैव भवति व्यक्ते : मानसे, तदनन्तरं प्रचारकार्येण व्यक्तिगतमान्यता विचारो वा क्रमश: सामाजिकमान्यता विचारो वा सञ्जायते। कषायभावेन स्वार्थभावेन पक्षव्यामोहेन च व्यक्तिगतद्रोहात् सामाजिकद्रोहो विवादश्च भवति, ततश्चाशान्तिर्भयप्रदसंघर्षो जातिपरिवर्तनं धर्मपरिवर्तनं देशपरिवर्तनं च नियमेन मानवानां जायते । भारतीयोतिहासे नाना घटना: साम्प्रदायिकद्रोहपूर्णा जातिधर्मपरिवर्तनपूर्णा: दृश्यन्ते । लौकिकक्षेत्रे विचाराणां मान्यतानां च समीकरणम्, मैत्री, सामाजिकशान्ति:, सत्यधर्मनिष्ठा च स्याद्वादप्रयोगेन नियमेन भवति । स एव धर्मान्धतां मृषावादं च निराकर्तुं समर्थ:।
अपि च निमित्तोपादानरूपो निश्चयव्यवहारात्मक: क्रमाक्रमबद्धपर्यायरूप: पुरूषार्थदैवविषयक: पुण्यपापधर्मविषयकश्च सामाजिकविवादो व्यक्तिगतो वा स्याद्वादपद्धत्यैव दूरीभवति ।
किञ्च राष्ट्रेषु राजनैतिकदलेषु परिषत्सु च विचार वैषम्यात्तीव्रविरोध: प्रतिक्रिया संग्रामो वा दृश्यते। विश्वेतिहासेऽनेकविशालघटना: श्रूयन्ते । तेषां सर्वेषां समाधानं समन्वयो वा स्याद्वादप्रयोगतः संपत्तुमर्हति । इतिहासे यत्रापेक्षाप्रयोगात् समन्वयो जनितस्तत्र देशे दलेषु च शान्तिरप्यभूत् । अहिंसाक्षेत्रे स्याद्वादः
जैनदर्शनेन स्याद्वादशैलीत: सर्वहितप्रदमहिंसानुष्ठानं प्रदर्शितम्। या अहिंसा प्राणिनां जीवनसंरक्षणे जन्ममरणादिदुःखनिवारणे च परममातृका प्रसिद्धा । या चा हिंसा न केवलं शस्त्रेषु शब्देषु च विद्यते, परन्तु जीवने सम्यगाचरितुं प्रधानलक्ष्यरूपा प्रकथिता।
लोकस्य पदार्थानां तत्त्वज्ञानेनानेकान्तात्मकेन पदार्थस्वरूपस्यात्मनश्च निश्चय आस्था च भवति, मानसशुद्धिरपि, सैव मानसिकाऽहिंसा कथ्यते । स्याद्वादत्मकनिर्दोषभाषाशैल्या वस्तुतत्त्वप्रतिपादकस्य वचनस्य मानसविचारशुद्धिमूलकः प्रयोगा भवति, स एव वाचनिकाऽहिंसा । मानसिक वाचनिकशुद्धिजन्या शारीरिकाऽहिंसा, अहिंसात्मकप्रवृत्तिर्वा संजायते। इत्थमनेकान्तमयविज्ञानेन स्याद्वादशैल्या चाहिंसात्रयस्य प्रतिष्ठा भवति, ततश्च लोककल्याणं सम्पद्यते । अत: सम्पूर्णाऽहिंसाविकासे स्याद्वादस्यानेकान्तवादस्य चोपयोग: सार्थकः । न्यायाधिपतिः स्याद्वाद:
अनेकान्तदर्शनेन मानसिकविचाराणां शुद्धिर्यदा संजायते, तदा निसर्गत एव वचन प्रयोगे निर्दोषता नम्रता च भवति, अतएव स्याद्वादी विज्ञः पारस्परिकविरुद्धविचाराणां निश्चायकः, विवादानां निर्णायकः, विद्रोहाणां विघातकः, दर्शनानां समन्वयविधायको भवति । सस्याद्वादी एवकारेण (स्वपक्षहठेन) कस्यचिद् बहिष्कारं न करोति, अपि तु स अपिकारेण तस्य समर्थनं करोति । नयवादेन सर्वेषां विचारकाणां बचनानि
-428)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org