________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ प्राधान्यम राष्टस्य चा प्राधान्यम्, तथापि राष्ट्रवस्तुव्यवस्थायै सुरक्षायै वा राष्ट्रप्रान्तयोः पारस्परिकाविरोधेन सहास्तित्वमावश्यकमिति ।
किञ्च विश्वमैत्रीमुखेन राष्ट्रविरोधं दूरीकृत्यान्ताराष्ट्रिय शान्तिसम्पादने, भारतचीनयोर्मर्यादाविवादस्य कश्मीरविवादस्य च सत्समाधानेऽपि प्रभुः स स्याद्वादः । यथाहि चीनराष्ट्रस्य स्वद्रव्यक्षेत्रकालभावापेक्षया स्वराष्ट्रत्वम्, भारताद्यपेक्षया च परराष्ट्रत्वम् । एवं भारतस्य स्वद्रव्यचतुष्टयापेक्षया स्वराष्टत्वम्, चीनाद्यपेक्षया च परराष्टत्वम् । अंतर्राष्ट्रीय शांति विधाने विश्वमैत्री विधाने च द्वयोर्राष्ट्रयोः सहास्तित्वमावश्यकम । अत: स्वराष्ट्र एव संतोषभावेन शासनं कर्तव्यम्, परराष्ट्रे तृष्णाद्रेकात् सैन्यादिशक्ति मदाद्वा नैव विधेयमाक्रमण् । एव सर्वत्र विज्ञेयम् । अपि च हठवादं दुर्भावनां मदं च निराकृत्य सत्याहिंसास्वरूपं श्रेष्ठ धर्मं गाँधीवादं वा लोकहिताय प्रदर्शयति स स्याद्वादः । राष्ट्रनेता पंडित जवाहरलाल नेहरू महोदयेन वाडुङ्गसम्मेलने राष्ट्र शांति करणाय पंचशीलस्य घोषणा कृता, या सर्वलोकमतमान्या भूत तस्य पञ्चशीलस्य प्रयोगः स्याद्वादशैल्यैव भवति निर्विरोधम् । यतश्च सा शैली स्वार्थभावना विरोधभावनां च निष्कास्य सहयोगं प्रदर्शयति ।
लोकव्यवहारे स्याद्वादः
1
लोकस्य समस्तव्यवहारो वातावरणं वाऽपेक्षासमाश्रितं विद्यते । मानवानां सकलव्यवहार : पदार्थेषु सापेक्षः, प्रकृतिपरिवर्तनमपि सापेक्षम् । निरपेक्षत्वे क्षणमात्रमपि लोकस्य व्यवस्था व्यवहारश्च कार्यकारी न भवितुमर्हति । अपेक्षावादेन सत्यमार्गस्यान्वेषणं संजायते । सत्यान्वेषणे च मानवानां स्वाभाविक प्रवृत्तिः सदैव प्रवाहिता भवति । सत्य व्यवहारे समुपस्थितविरोधानाम्, विध्नानां समन्वयं शान्तिं च करोति स्याद्वादः । स एव लोकव्यवहारस्य नेता जैनदर्शन प्रोक्त:
जेण विणा लोगस्सति विवहारो सव्वाहन निव्वडइ । तस्य भुवणेक्क गुरुणो णमो अणोगंत वायस्स ॥
( सन्मतितर्क प्रकरण - 3 / 68 ) विद्यते हि लोके मानवो बुद्धिसम्पन्नः प्राणभृत् । स स्वविवेकेन कस्मिन्नपि विषये परामर्श कृत्वा सत्यासत्यनिर्णये हेयोपादेयविधाने वस्तुतत्त्वनिरीक्षणे च समर्थः । वस्तु तावदनन्तधर्मात्मकम्, मानवस्य मतिस्तु क्षायोपशमिकत्वादपूर्णा, अतो मानव एकस्मिनन्समये वस्तुन एकमेव गुणं विचार्य वक्तुं समर्थः । न हि पदार्थस्य सर्वांशविचारे स युगपद् दक्षः । अतः कस्यचिन्मानवस्य वार्तां श्रुत्वा स्याद्वादशैलीतो विचार्यैव तस्य विचारस्य हेयोपादेयस्प निश्चयो विधातव्यः । अन्यथा पक्षपातरीत्या विचारे निश्चवे वा कलहोऽग्रे धावत्येव । कस्यचिद् विज्ञस्योपदेशं श्रुत्वा, ग्रन्थकारस्स वा रचनां पठित्वा विवक्षात एव विचार: कर्त्तव्यः । यतो विवक्षातो विषयप्रतिपादनं निर्विरोधं भवति, अन्यथा पदे पदे विरोधः । स्वकथनं सत्यमेव, परकथनं तु मृषैवेति हदवादो न कार्यकारी । अनया स्याद्वादशैल्या लोके जीवनस्य विकास :, मैत्रीभावः, पारस्परिक सहयोग: सामाजिकसुधारश्च सम्पद्यते । विद्वेषभावं विरोधं स्वार्थवृत्तिं च निरस्य विवाहकार्ये दहेजप्रथायां मरणभोजे सामाजिकव्यवहारे धार्मिकोत्सवे गृहस्थाश्रमनिर्माणे व्यापारे विषयसेवने
Jain Education International
427
For Private & Personal Use Only
www.jainelibrary.org