________________
कृतित्व / संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ
-
"We can know only the relative truth, the real truth is known to the University observer" इति । तात्पर्यम् - यद वयं केवलं सापेक्षसत्यमेव ज्ञातुं समर्थाः, अल्पशब्दज्ञानसहितत्वात्। वस्तूनां निश्चयपूर्णसत्यं (Absolute truth) तु केवलं विश्वद्रष्टाविज्ञातुं समर्थः । ( अनेकान्ते वर्षे 11 किरणे 3 पृ. 243) अपि च - पाश्चात्यदार्शनिकस्य विलियमजेम्समहोदयस्य Pragmatism सिद्धान्तस्य स्याद्वादेन सहानेकदृष्टिषु तुलना साध्या । ग्रीकदेशे हि स्थापितस्य इलियाटिक ( ELEACTIC) सम्प्रदायस्य "जगत् मान्यताऽऽसीत् । परिवर्तनहीनं नित्यमस्तीति" तद्विरुद्धस्य हिराक्लीटियन ( Hereclition) सम्प्रदायस्य मान्यता आसीत् - यत् "जगत सर्वथा परिवर्तनशीलमनित्यमिति । अनयोः परस्परविरुद्धयोर्मतयो: समन्वयं कुर्वताम्, एंपीडोक्लीज (Empedocles), एटोमिस्ट्स (Atomists), इनैक्सागोरस (Anaxagoras) इत्येषां दार्शनिकानां मान्यताऽऽसीत् - 'पदार्था नित्याः सन्तोऽपि आपेक्षिकपरिवर्तनशीला: (अनित्या:) सन्ति' इति । किञ्च - जर्मनदेशीयस्य तत्त्ववेत्तुः हेगलमहोदयस्य (Hegel) मान्यता विद्यते - यद् विरुद्ध धर्मात्मकत्वमेव संसारस्य मूलमस्ति । कस्यचिद् वस्तुनस्तत्त्ववर्णन समये तस्य वास्तविकतायास्तु वर्णनं कर्तव्यमेव परं तेन सह तयोर्विरुद्धधर्मयोः समन्वयोऽपि प्रदर्शनीयः । विद्यते विश्वासो ब्रैडलेमहोदयस्य प्रत्येकं वस्तु तदितरवस्तुतुलनायामावश्यकमपि तुच्छं चापि । (अहिंसादर्शने पृ. 302-303) । अपि च प्रो. हरिसत्यभट्टाचार्य महोदयो जैनदर्शने नयानामध्ययनं यूरोपीयस्यार्वाचीनस्य तर्कशास्त्रस्य सिद्धान्तं निरूपयति । यूरोपीयतर्कशास्त्रस्य सिद्धांत: - यथा यथा वस्तुनो विश्लेषणं क्रियते तथा तथा तस्य स्वरूपं सूक्ष्मं ज्ञायते, तत् सामान्यतो विशिष्टं भवति । ( अनेकान्ते वर्षे 11 किरणे 3 पृ. 245 डा. सम्पूर्णानन्दमहोदय:
"जैनदर्शनेन दर्शनशब्दस्य काल्पनिक भूमिं परित्यज्य वस्तुमर्यादायां वस्तुस्थित्याधारेण संवादस्य समीकरणस्य यथार्थतत्त्वज्ञानस्य च विषयेऽनेकान्तदृष्टिः स्याद्वादभाषा च लोकाय प्रदत्ता" । (जैन दर्शने पृ. 560 )
इत्थं प्रोक्तप्रमाणैः स्याद्वादोऽनेकान्तवादो वा स्वतन्त्रत्वेन दार्शनिको वैज्ञानिकश्च सिद्धांत:
सिद्धः ।
राष्ट्रिय क्षेत्रे स्याद्वाद:
यथा चैकस्मिन् पदार्थे विविधधर्माणामपेक्षाबलात् परस्पराविरोधपूर्वकं समन्वयं कृत्वा वस्तुव्यवस्थां सम्पादयति स्याद्वादस्तथैव महाद्वीपेषु राष्ट्रेषु च निवासिनां मानवानां विविधविचारेषु धर्मेषु सम्प्रदायेषु चापेक्षाप्रयोगात्पारस्परिकविरोधं दूरीकृत्य, बन्धुत्वम् मैत्रीं च विधाय तेषु सहास्तित्वं स्थापयितुं समर्थः स्याद्वादः । अपि च- साम्प्रदायिकद्वेषस्य समाज वर्णन गतद्वेषस्य, शरीर वर्णद्वेषस्य भाषाविरोधस्य प्रान्तविरोधस्य पदाधिकारविरोधस्य चापेक्षाबलाद् विध्वंसं कृत्वा राष्ट्रियक्षेत्रेऽपि शान्तिप्रदाने । प्रबलः सः। तथा ह्यखण्डराष्ट्रव्यवस्थापेक्षया राष्ट्रस्य प्राधानत्वम् प्रान्तस्य च गौणत्वम् प्रांतीय व्यवस्था पक्षया प्रान्तस्य
Jain Education International
-
-
426
For Private & Personal Use Only
www.jainelibrary.org