________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ दार्शनिकक्षेत्रे स्याद्वादस्य प्रभाव:
पक्षपातरहितत्वात् स्याद्वादेन परस्परविरुद्धदर्शनानां सम्प्रदायानां च समन्वये सति तस्य तेषु दर्शनेषु प्रभाव: स्वयमेव सिद्धो भवति। लोकस्य संयोग - वियोगपरिवर्तनरूपविधानं सापेक्षम्, लोकस्य व्यवहारोऽपि सापेक्षः । अन्यथा लोकस्य सम्यस्थितिर्व्यवस्था च न भवेत् । तद्विधानं व्यवहारो वा सापेक्षनयवादेन स्याद्वादेन वा संजायते । अतएव लोकस्य सम्यक् स्थिति दृष्ट्वा "दुनिया" (द्विनय:) इति संज्ञा निगद्यते । जैनदार्शनिकानां मतम् - सर्वदर्शनानि नयवाद एवान्तर्भूतानि । अत एव तानि सर्वाणि नयवादेन प्रभावितानि दृश्यन्ते । तथाहि - ऋजुसूत्रनयेन बौद्धदर्शनम् , संग्रहनयेन वेदान्तदर्शनम्, नैगमनयापेक्षया न्यायदर्शनं वैशेषिकदर्शनं च, शब्दनयेन शब्दब्रह्मदर्शनं व्यवहारनयेन च चार्वाकदर्शनं प्रभावितम् किञ्च - महावीरतीर्थङ्करसमये स्याद्वादेन क्रियावादिप्रभृतय: 363 सम्प्रदाया: प्रभाविता आसन् । (अहिंसा दर्शनस्य पृ. 299-300)
अपि च - इन्द्रभूतिप्रभृत्ये कादशदार्शनिका नित्यै कान्तवादिनः, उच्छे दवादिनश्च अजितकेशकम्बलिप्रभृतयो दार्शनिका महावीरस्य स्याद्वाद दर्शनेन प्रभाविता: । इन्द्रभूतिप्रभृतयस्तु दार्शनिका एकादशसंख्यकाः साक्षान्महावीरसमवशरण एव दीक्षिता: सन्तो गणधरपदे विभूषिता अभूवन् । (जैनदर्शनस्य पृ. 59)
भारतीयदर्शनशास्त्रेषु वेदोपनिषदादिषु विश्वस्य आदितत्त्वविषये सद् - असद् - उभय - अनुभयेति भेदचतुष्टयेन निर्णयः कृतः । तत्रापि विवक्षाबलेनैन (स्याद्वादेनेव) परस्परविरूद्धधर्माणां पदार्थे निर्णयों ज्ञातव्यः, अन्यथा धमैकान्तवादेन पारस्परिकविरोधाद् वस्तुतत्त्वस्य निश्चयोऽशक्यः । तथाहि - “एकं सद् विप्रा बहुधा वदन्ति" (ऋग्वेदे 1/164/46)
“सदेव सौभ्येदमग्र आसीत् एकमेवाद्वितीयम् ।
तद्वैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयम् ॥" तस्मादसत: संजायत ...............'' (छान्दोग्योपनिषद् 6121) "आपोधातु सिया अज्झत्तिका सिया बाहिरा (जलं स्यादभ्यन्तरं स्याद् बाह्यम्)"
(मज्झिमनिकाय - महाराहुलोवादसुत्त) एवं कठोपनिषद्, प्रश्नोपनिषद्, ईशावास्येत्यादि ग्रन्थेष्वपि वस्तूनां विरुद्ध - धर्माणां वर्णनं विवक्षावशादेव ज्ञातव्यम्।
किञ्च - “सामान्यं द्विविधं प्रोक्तं परं चापरमेच च । सकलजात्यपेक्षयाऽधिकदेशवृत्तित्वात् सत्तायाः परत्वम् , तदपेक्षया चान्यासां जातीनामपरत्वमिति"।
(कारिकावली कारिका 8 टीका - पृ. 19) अपि च - "द्रव्यत्वादिक जातिस्तु परापरतयोच्यते ॥9॥ पृथ्वीत्वाद्यपेक्षया व्यापकत्वादधिकदेशवृत्तित्वाद् द्रव्यत्वादेः परत्वम्, सत्तापेक्षया व्याप्तत्वादल्पदेशवृत्तित्वाच्च
-424
H
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org