________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ दर्शनानां समन्वये स्याद्वादः
लोके हि दर्शनस्याविष्कार: सिद्धान्तानां प्रतिष्ठायै भवति । सिद्धान्तैश्र लोककल्याणं संजायते । अतो दर्शनानां परमलक्ष्यमति लोककल्याणं प्रसिद्धम्। लोके राष्ट्रेषु वा दर्शनानां सिद्धान्तानां विविधविचाराणां च विवादो द्रोह, तत्समर्थकानां मानवानां च पारस्परिकप्रतिक्रिया प्रायोऽभूत्, भवति च । अनेन दूषितवातावरणेन दर्शनानां लोकहितात्मकलक्ष्यपूर्तिर्न भवितुमर्हति । अतो दर्शनानां विचाराणां च समन्वयस्यावश्यकता । यथार्थवस्तुतत्त्वज्ञानमन्तरेण दर्शनसमन्वयो दुःसाध्य: । यथार्थवस्तुविज्ञानं च स्याद्वादशैलीमाध्यमेन व्यक्तं भवति । अत: स्याद्वादो दर्शनसमन्वयस्य मूलहेतुः ।
एकान्तवादेन दुराग्रहेण च पारस्परिकविवाद: प्रतिक्रिया च भवति । यथा नित्यैकान्तवादिनः संख्या: क्षणिकैकान्तवादिनो बौद्धान् तिरस्कुर्वन्ति, बौद्धाश्च नित्यैकान्तवादिनस्तिरस्कुर्वन्ति । स्याद्वादिनस्तु नयवलेन विवक्षाबलेन वा उभयो: स्थितिकरणं मित्रतां व कुर्वन्ति । तथाहि - द्रव्यापेक्षयाद्रव्यार्थिकनयेन वा वस्तुनो नित्यत्वम् , उत्पादव्ययापेक्षया चानित्यत्वं सुवर्णकुण्डलवत् । मानसिकसाम्यभावाय मतावेशतापनिवारकाय चानेकान्तात्मकं वस्तुविज्ञानं शीतलं भैषज्यं विद्यते ।
किञ्च - सत्यानेकान्तविज्ञानेन सिद्धांतानां विचाराणां वा क्षणिकं समीकरणं शिथिलश्रद्धानं वा न संजायते। अपि तु वस्तुस्वरूपाश्रयेण सत्यविज्ञानहेतुकः स्थायी समन्वयो मैत्री वा प्रभवति । स्याद्वादशैलीतो वचनशुद्धिः, अनेकान्तदर्शनतो विचारनैर्मल्यं, ताभ्यां च साम्प्रदायिक द्वेषाभावरूपस्य समीकरणस्य भावना जागृता भवति ।
अपि च - ऋषभदेवादितीर्थङ्करैः प्राचीनाचार्यैश्च स्याद्वादमाध्यमेन भाषाशक्तित्वं भाषासौन्दर्य च दर्शयित्वा, अनेकान्तमाध्येन च निष्पक्षतां (वीतरागतां) समुपदिश्य मतान्तराणां समन्वयः, समस्यानां समाधानं विचाराणां संशोधनं, हिंसाहिदुष्कृतानां बहिष्कारः, समाजानां सुधारश्च विहितः । स्याद्वादस्य शैल्या विविधदर्शनानां समन्वयसाधकः श्लोक: -
कथञ्चित्ते सदेवेष्टं कथञ्चिदसदेव तत्। तथोभयमवाच्यं च नययोगान्न सर्वथा ॥
(आप्तमीमांसा, श्लोक 14) कतिपयदर्शनानां समन्वयो दृष्टव्य: अत्र - (1) सांख्यदर्शने सदेकान्तवादस्य प्रथमभङ्गे समन्वयः। (2) माध्यमिकदर्शनस्यासदेकान्तवादस्य द्वितीयभङ्गे, (3) वैशेषिकदर्शनस्य सदसदै - कान्तवादस्य तृतीयभङ्गे, (4) बौद्धदर्शनस्य अवक्तव्यैकान्तवादस्य चतुर्थभंङ्गे, (5) शङ्कराचार्यस्यानिर्वचनीयवादस्य पञ्चमभङ्गे, (6) बौद्धाना मन्यापोहवादस्य षष्ठभङ्गे, (7) यौगस्य पदार्थवादस्य सप्तमभङ्गे समीकरणं भवति। (जैनधर्म पृ. 71-72)
__ अत: स्याद्वादेन दर्शनानां विचाराणां च विवादस्य समाप्तिर्भवति । यथाविज्ञजनेन । यथा विज्ञजनेन गजविषये सप्तजात्यन्धपुरुषविवादसमाप्तिर्भवति ।
-423
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org