________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ घटप्रदीपादिकस्य द्रव्यक्षेत्रकालभावापेक्षया । (3) स्यादस्ति नास्ति पुस्तकम् - स्वद्रव्यपरद्रव्यक्षेत्रादीनां क्रमिक विवक्षयोभयात्मकम् (4) स्यादवक्तव्यं पुस्तकम् - पुस्तकस्यानन्तधर्माणामस्तिनास्तिरूपधर्मयोर्वा युगपत् शब्दैः कथनायोग्यत्वादवक्तव्यम् । (5) स्यादस्ति पुस्तकं वक्तव्यम् - यद्यपि स्वद्रव्ययाद्यपेक्षया तदस्ति तथापि तस्यानन्तगुणानां युगपत् शब्दैवर्णनं न भवितुमर्हति, अथवा पूर्णकथनमेकगुणस्यापि न वक्तुं शक्यम्। (6) स्यान्नास्ति पुस्तकंवक्तव्यम् - यद्यपि भिन्नद्रव्याद्यपेक्षया नास्ति तत्, तथापि पुस्तकस्य निषेधरूपधर्माणामेकधर्मस्य वा शब्दैर्युगपद् वर्णनमशक्यम् । (7) स्यादस्ति नास्ति पुस्तकं वक्तव्यम् - यद्यपि स्वपरद्रव्याद्यपेक्षातो वस्तुपुस्तकमुभयरूपम्, तथापि क्रमिकविवक्षया पुस्तकस्यानेकगुणानां द्वयेर्वा युगपद् स्पष्टत्व वक्तुमशक्यमिति सप्त प्रकारैः सर्वेषां वस्तूनामनन्तधर्माणां वर्णनं विवक्षितगुणव्यवहारश्च भवति । वस्तुस्वरूपे ज्ञानिनां जिज्ञासा सप्तविधा संजायते, अतस्तत्समाधानाय भङ्गा अपि सप्तसंख्यका नाधिका न न्यूना: । किञ्च - अस्ति - नास्ति - अवक्तव्यमिति मूलभङ्गत्रयस्य सप्तैव प्रकारा अपुनरुक्ता भवन्ति, स्वभावतो न ततो न्यूनाधिका: । अत: स्याद्वादस्य शैली सप्तविधैव निर्दोषेति । उक्तं च -
स्याबाद: सर्वथैकान्तत्यागात् किंवृत्तचिद्विधि: । सप्तभङ्गनयापेक्षा हे या देयविशेषक:।।
(आप्तमीमांसा, श्लोक 104) स्यान्निपातस्य व्याख्या
संस्कृ तव्याकरणे तिङन्तप्रतिरूपकः स्यादिति निपात: क्रि यारूपो ऽव्ययरूपश्च स निश्चितविवक्षावाचकः, तस्य कथंचिदिति पर्याय: । तस्यार्थः - निश्चितविवक्षा - अपेक्षा, दृष्टिकोणः नयरूपो लक्ष्यांशरूपो गुणांशरूपो वा । स्या-त्पदत्य संभव - कदाचित् - संदेह अनुमान अनिश्चय इति शायद इति च लोकप्रचलितार्था उपयुक्ता न भवन्ति, निश्चयज्ञानोत्पादकत्वाभावात् । प्राकृतभाषायां पालिभाषायां च 'स्यात्' निपातस्य सिया' इति प्रयोगो भवति। यो वस्तुनो निश्चितविवक्षितभेदस्य वाचकः, अविवक्षितभेदस्य च द्योतकः प्रसिद्धः । यथा बौद्धग्रन्थस्य मज्झिमनिकायस्य महाराहुलोवादसुत्ते कथितम् - “कतमा च राहुलआपो धातु ? आपो धातु सिया अज्झत्तिकासिया बाहिरा"
___ अर्थात् - जलधातु कतिविधं ? उत्तरं - जलधातु स्यादभ्यन्तरं स्याद्वाह्यमिति द्विविधं । अत्र खलुस्यादभ्यन्तर मित्यत्र स्यात्पदं निश्चित भेदस्याभ्यन्तस्य वाचकं द्वितीयस्य च बाह्यभेदस्य द्योतकम्। एवं हिस्यात्पुस्तकमस्तीत्यत्र स्यात्पदं निश्चितसापेक्षगुणस्यास्तित्वस्य वाचकम्, द्वितीयादिनिरपेक्षगुणानां च द्योतकं (सूचकं) भवति । “द्योतकाश्च भवन्ति निपाता:' इत्यत्र च 'शब्दाद् वाचकाश्च" इति व्याख्यानात् (सप्तभङ्गी - तरङ्गिणी पृ. 23)। अतो निश्चितविवक्षितगुणांशस्य वाचकत्वात् सिद्धं सार्थक्यं स्यात्पदस्य । एतेन सुनिश्चितमिदं यद्वस्तुनोऽनन्तगुणानां कथनं शब्दैर्युगपद् न जायते, अपितु क्रमिकतया विवक्षितकाले विवक्षितगुणस्यैव कथनं स्यान्निपातेन सूचितं भवति । उक्तं च -
स्याच्छब्दादप्यनेकान्तसामान्यस्याबोधने । शब्दान्तर प्रयोगोऽत्र विशेष प्रतिपत्तये ॥
(सप्तभङ्गी तरङ्गिणी, पृ. 30)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org