________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ अतः प्रमाणापेक्षया अनेकान्त: , नयापेक्षया चैकान्त: सिद्धयतीति भावः । अनेकान्तवाद: स्याद्वादो वा
जैनदर्शनग्रन्थेषु स्याद्वादोऽनेकान्तवाद इति शब्दद्वयं दृश्यते । तयोरर्थभेदोऽस्ति न वेति विचार्यतेसामान्यसिद्धांतापेक्षया द्रव्यानन्तशक्तिसिद्धिरूपलक्ष्यत्वेन वा स्याद्वादानेकान्तवादयोर्नास्ति वाच्यभेदः, ताभ्यामेव द्रव्यस्यानेकधर्माणां व्यक्ति: सिद्धिश्च भवति । दर्शनग्रन्थेषु धर्मग्रन्थेषु वा प्रायोऽनेकान्तपदेन स्याद्वादस्य, स्याद्वादपदेनानेकान्तस्य च ग्रहणं स्वीकृतम् । तथाहि पुरुषार्थसिद्धये श्रीमदमृतचन्द्रसूरिणा प्रोक्तम् -
"सकलनयविलसितानां विरोधमथनं नमाम्यनेकान्तम्' इत्यत्रानेकान्तपदेन टीकायां स्याद्वादस्यापि कथनम् । अपि च -
बन्धश्च मोक्षश्च तयोश्च हेतुर्बद्धश्च मुक्तश्च फलं च मुक्त: । स्याद्वादिनो नाथ तथैव युक्तं नैकान्तदृष्टेस्त्वमतोऽसि शास्ता ॥
(वृहत्स्वयम्भूस्तोत्रे श्लोकः 14) अत्रापि स्याद्वादिनस्तीर्थकरस्यैकान्तदृष्टि निषेधादनेकान्तदृष्टे: समर्थनम् अभेदेन कृतम् । शब्दार्थविशेषापेक्षया तयो दो दृश्यते। तथाहि - अनेक + अन्तः = धर्म: तस्य वादः = कथनमित्यनेकान्तवाद: -अनन्तशक्तिमान्यता परस्परविरोधिधर्मद्वयस्य मान्यता वा। स्यात् = कथंचित्, वादः = कथनमिति स्याद्वादः। अर्थात् कथंचित् क्रमशो वस्तुनो विविधगुणकथनं शब्दप्रयोगशैली वा । अत्रानेकान्त - स्याद्वादयोर्वाच्यवाचकसम्बंध: । अपि च अनेकान्तवाद: साध्यो लक्ष्यो वाच्यो विधेयस्तत्त्वरूप: प्रमाणात्मको विज्ञानरूपो निश्चयरूपश्च कथ्यते । स्याद्वादस्तु साधको निर्देशको वाचकः साधको नयरूपः प्रयोगात्मको वचनात्मको व्यवहाररूपश्च निगद्यते । किञ्च अनेकान्तवादेन मानसिकविचारशुद्धिः, स्याद्वादेन च वाचनिकशुद्धिर्नियमेन भवतीति द्वयोरन्तरं सिद्धम् । अत्र तु स्याद्वादानेकान्तवादयोर भेदविवक्षा ज्ञातव्या । सप्तभङ्गात्मक: स्याद्वादः
सोऽयं स्याद्वादः सप्तविधप्रक्रियामाध्यमे नानेकान्तात्मकं द्रव्यस्वरूपं निरूपयति । आपेक्षिकधर्मकथनाय, वचने सत्यान्वेषणाय विश्वसमता (समन्वय) विधानाय च स्याद्वादशैली प्रशस्ता, सा च सप्तविधा, या सप्तभङ्गीति भाष्यते (Seven aspects)तस्याः रूपरेखा दार्शनिकाचार्य: कथिता"प्रश्नवशादेकस्मिन् वस्तुन्यविरोधेन विधिप्रतिषेधविकल्पना सप्तभङ्गी' इति । (तत्त्वार्थराजवार्तिके अ. 1 सूत्रम् 6)
___अर्थात् - एकस्य द्रव्यस्याविरोधेनैकस्य धर्मस्य विधिप्रतिषेधात्मकं वर्णनं सप्त प्रकारै र्जायते । यथा मधुराम्लतिक्तानां त्रयाणां रसानां सप्तप्रकारा आस्वादा भवन्ति (1-1-1-2-2-2-3), तथैव अस्तित्व धर्मापेक्षया अस्ति - नास्ति अवक्तव्यमिति मूलभङ्गत्रयेण सप्तभङ्गा भवन्ति । एवमेकस्य द्रव्यस्यानन्तधर्माणां कथनं विधिप्रतिषेधावक्तव्यरूपत्वेन सप्तविधं भवति । अतएव द्रव्यमनन्तधर्माधारं सिद्धं विद्यते । तथाहि - (1) स्यादस्ति पुस्तकम् - स्वद्रव्यक्षेत्रकालभावापेक्षया । (2) स्यान्नास्ति पुस्तकम्-परवस्तुनो
(421)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org