________________
कृतित्व/संस्कृत
साहित्य मनीषी की कीर्ति स्मृतियाँ किञ्च- वस्तुतत्त्वज्ञानमंतरेण मानसिकवाचनिककायिकरूपाया अहिंसाया: सिद्धिर्न भवति । वस्तुतत्त्वज्ञानं च सकल भवत्यनेकान्तदर्शनेन । अनेकान्तस्य प्रयोगः सिद्धिश्च स्याद्वादशैल्या जायते, अनेन कारणेनापि स्याद्वादशैली महत्त्वपूर्णा सिद्धा । आवश्यकताऽऽविष्कारस्य जननी भवति" इति न्यायेन तीर्थङ्करमहापुरुषैस्तत्पूर्तये स्याद्वादस्याविष्कारो विहितः, अर्थात् क्रमिकस्वदिव्योपदेशेन प्रकटीकृतः । स्याद्वादस्य रूपरेखा -
कथंचित्कथनरूप: स्याद्वाद: । अर्थात् अनन्तगुणात्मके द्रव्ये स्यात् = अपेक्षावशात् स्वमर्यादायां कस्यचिदेकगुणस्य मुख्यकथनमितगुणानां च गौणत्वध्वनिः स्याद्वादोऽनेकान्तवादो वा । जैनदार्शनिकैः स्याद्वादस्य व्याख्या विविधशब्दरीत्या विहिता । तथा हि - "अनेकान्तात्मकार्थकथनं स्याद्वादः'इति (लघीयस्त्रये भट्टाकलङ्कदेव:)।
विधेयमीप्सितार्थाङ्गं प्रतिषेध्याविरोधि यत् ।
तथैवादेयहेयत्वमिति स्याद्वादसंस्थिति: ॥ (आप्तमीमांसा का 113) अर्थात् - अनेकान्तात्मनि वस्तुनि विधेयप्रतिषेध्यरूपस्य परस्परविरोधिधर्मद्वयस्यापेक्षाभेदात् कथनम्, सिद्धि:, आदेयहेयत्वम्, मुख्यगौणत्वव्यवस्था वा स्याद्वादः । यथा चैकः पुरुषः स्वजनकापेक्षया पुत्रः, स्वपुत्रापेक्षया पिता, स्वमातुलापेक्षातो भागिने य: स्वभागिने यापेक्षातश्च मातुल इति प्रयोजनवशादनेधर्मविशिष्टः, तथैव ग्रन्थनामक एकस्मिन् वस्तुनि द्रव्यार्थिकनयापेक्षया नित्यत्वम्, पर्यायार्थिकनयापेक्षया चानित्यत्वमिति धर्मद्वयसिद्धि: । किञ्च - स्वपुद्गलत्वादिगुणापेक्षया वस्त्रस्य नित्यता, पर्यायपरिवर्तनापेक्षया च तस्यैवानित्यतेति धर्मद्वयसिद्धि: । किञ्च - पर्यायस्योत्पादविनाशाभ्यां कलशस्य क्षणिकत्वम्, अस्तित्व पुद्गलत्वाद्यपेक्षया च ध्रौव्यमिति सत्स्वरूपस्य द्रव्यस्य विरुद्धानन्तधर्माणां सत्ता सिद्धा, “सद्रव्यलक्षणम्, उत्पादव्ययध्रौव्ययुक्तं सत्” इति वचनात्। (तत्त्वार्थसूत्रे अ. 5 सूत्रम् 29-30)
विधिनिषेघश्च कथञ्चिदिष्टौ विवक्षया मुख्यगुणव्यवस्था । इति प्रणीति: सुमतेस्तवेयं मतिप्रवेक: स्तुवतोऽस्तु नाथ ॥
(बृहत्स्वयम्भूस्तोत्रे समन्तभद्राचार्य: श्लोक 25) "ननु इदमेव विरुद्धं तदेव नित्यं तदेवानित्यमिति ? नैतद्विरुद्धम्, कुत: 'अर्पितानार्पितसिद्धे' (अ. 5 सूत्रम् 32) । अनेकान्तात्मकस्य वस्तुन: प्रयोजनवशाद्यस्य कस्यचिद्धर्मस्य विविक्षया प्रापितं प्राधान्यमर्पितम्, तद्विपरीतमनर्पितम्, ताभ्यां वस्तुनोऽनेकगुणत्वसिद्धेर्नास्ति विरोधः" इति। (सर्वार्थसिद्धौ पूज्यपादाचार्य: पृ. 194)
__एवं हि द्रव्यस्य स्याद्वादेन नित्यानित्य एकत्वाने कत्व सामान्यविशेष सदसत् मूर्तत्वामूर्तत्वभिन्नत्वाभिन्नत्त्वेत्यादिधर्मां अनन्ता: सिद्धा: । किञ्चनेकान्तस्य सिद्धि: प्रमाणनयाम्यां भवति, अतोऽनेकान्तोऽप्यनेकप्रकारो भवति, नत्वेकप्रकारः, यथा सप्तभङ्गरूपः, उत्पादव्ययध्रौव्यात्मकः, गुणपर्ययद्रूपः, सद्रूपः, सामान्यविशेषरूपो वा । तदुक्तं समंतभद्राचार्येण -
अनेकान्तोऽप्यनेकान्त: प्रमाणनयसाधन: । अनेकान्त: प्रमाणात्ते तदेकान्तोऽपिँतान्नयात्॥
(वृ. स्वयंभूस्तोत्रे श्लोक103) (420)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org