________________
कृतित्व / संस्कृत
डा. दयाचंद्र साहित्याचार्य - प्राचार्य
पंडित जी की संस्कृत अभिरूचि - संस्कृत निबंध कृतित्व - संस्कृत
विश्वतत्त्वप्रकाशक : स्याद्वाद:
विश्वदर्शनेषु प्राचीनभारतीयस्य जैनदर्शनस्यास्तित्त्वं पूर्वेतिहासपुराणपुरातत्त्वै: प्रसिद्धमिति भारतीयै वैदेशिकैन साहित्यिकैः स्वीकृतं यो द्रव्यभावकर्मशत्रून् जयति स जिन जिनेन प्रणीतो धर्म इति जैनधर्मः । अथवा जिनो देवता येषामिति जैना:, जैनानां धर्म इति जैनधर्मों जैनदर्शनं वा । अहिंसा, स्याद्वाद:, कर्मवादो द्रव्यवादोऽध्यात्मावाद इति जैनदर्शनस्य मौलिकसिद्धांत: । तेषु द्योतते स्याद्वाददिवाकरो जैनदर्शनस्य नैत्रात्मकोऽद्वितीयो विश्वतत्त्वप्रकाशको वस्तुतत्त्वप्रदर्शक प्रधान: सिद्धांत: । अयं खलु जैनदर्शन भवनस्याधारशिक्षारूपत्वेन स्वसत्तां स्थापयति । विश्वशान्तिप्रदस्याहिं साधर्मस्य प्रतिष्ठायै दार्शनिकलोके जैनदर्शनेन प्रदत्तोऽयमपूर्वः स्याद्वादो विद्यते सर्वलोकाय महती दत्तिः । सत्यासत्यानिर्णायकः समन्वय (विश्वसन्धिमैत्री वा) विधायकोऽयं हि मिथ्याज्ञानतिमिरं दिवाकर इव सापेक्षनयप्रमाणकिरणैः स्वभावत्वेनैव निवारयति । न च भवति तेन विना लोके विश्वतत्त्वालोकः ।
स्याद्वादस्योदय:
विद्यते खलु जैनदर्शनस्य मान्यता - यत्स्कन्धाणुरूपं लघुदीर्घकायं स्थूलं सूक्ष्ममपि वस्तु (द्रव्यं) स्वमर्यादायामनन्तधर्मविशिष्टं युक्तिप्रमाणैः स्वानुभवेन च सिद्धम् । यथा कदलीफले रूपं रसो गन्धः स्पर्शः स्थूलाकृतिर्गुरुत्वम् अस्तित्वं वस्तुत्वं द्रव्यत्वं प्रमेयत्वमगुरुलघुत्वं प्रदेशवत्त्वं क्षुधातृषापित्तशान्तिकरत्वमित्यादयो गुणा:, रुग्णस्य बाधावर्धकत्वं कासकफवर्धकत्वमित्यादयो दोषाश्च सन्ति । एकं हि विशुद्धज्ञानं तान् विविधधर्मान् युगपत् ज्ञातुं शक्नोति, परमेकस्मिन् काल एकः शब्दो वस्तुन एकमेव धर्मं गुणं वैकदेशत्वेन वक्तुं समर्थो न तु सर्वधर्मान् यथा नारिङ्गफले मधुरत्वकथनं गन्धत्वादिकथनं वा क्रमशः । दृश्यते च लोके यद् वक्तारः समये समये स्वस्वदृष्टिकोणैर्विवक्षितवस्तुगुणकथनाय शब्दप्रयोगं कुर्वन्ति । न तु ते वस्तुनां विविधगुणवर्णने युगपत्समर्थाः, यतश्च नेदृशी शक्तिः शब्देषु । अतः क्रमशो विवक्षितवस्तुगुणकथने वक्तुः, तद्गुणपरिज्ञाने च श्रोतुः समीहितकार्यसिद्धये स्याद्वादपद्धतेर्भवत्येव महत्यावश्यकता ।
किञ्च - स्याद्वादेनानेकान्तसिद्धिर्भवति । सदसदादिरूपस्य द्रव्यस्य परस्परविरूद्धधर्म द्वयस्य विवक्षावशात् परस्परसापेक्षकथनं स्याद्वादमाध्यमेनैव लोके कार्यकारि भवति, तेनैव च द्रव्यस्य क्रमशः पूर्णतया तत्त्वज्ञानं भवति । अतएव स्याद्वादस्योपयोगः परमावश्यकः ।
Jain Education International
419
साहित्य मनीषी की कीर्ति स्मृतियाँ
For Private & Personal Use Only
www.jainelibrary.org