________________
२९२
महोपाध्याय समयसुन्दर : व्यक्तित्व एवं कृतित्व
अंगाणंगपविट्टं सम्मसुयं लोइयं तु इत्थ मिच्छसुयं । आसज्जउ सामितं लोइयलोगुत्तरे भयणा ॥
व्याख्या - • इह अङ्गप्रविष्टम् आचारादिश्रुतम् अनङ्गप्रविष्टं तु आवश्यकादिश्रुतम्, एतद् द्वितीयमपि स्वामित्वचिन्तायानिरपेक्षं स्वभावेन सम्यक् श्रुतं, लौकिकं तु भारतादि प्रकृत्या मिथ्या श्रुतं स्वामित्वम् आसाधु स्वामित्वचिन्तायां, पुनर्लौकिके भारतादौ, लोकोत्तरे च आचारादौ भजना विकल्पना अवसेया, सम्यग्दृष्टिपरिगृहीतं भारतादि अपि सम्यक् श्रुतं सावद्य भाषित्व भवहेतुत्वादि यथावस्थितत्त्वरूपबोधतो विषयभागेन योजनात्, मिथ्यादृष्टिपरिगृहीतं तु आचारादि अपि मिथ्याश्रुतम् अयथावस्थितबोधतो वैपरीत्येन योजनात् इति भावार्थः। इति सम्यक्त्वपरिगृहीतं सर्व भारतादि अपि सम्यक् श्रुतम् । इति ॥ यदुक्तं तथा तच्च सम्यक्त्वं पञ्चघा भवति इत्थम् एव श्रीआवश्यकवृहवृतौ सामायिकनिक्षेपाधिकारेपि उक्तं तथापि सर्वम् एव सम्यक्दृष्टिपरिगृहीतं परसमयसम्बन्धि अपि सम्यक् श्रुतमेव तस्य स्वसमयोपकारित्वाद् इति ।
पुनरपि श्री नन्दिसूत्रमे तत् साक्षिभूतं तथाहि से किं तं सम्मसुयं जं इमं अरहंतेहि भगवंतेहि उप्पन्नणाणदंसणधरेहिं तिलोक्कनिरिक्खियमहियपूइ एहिं अइअपच्चूपणं अणागयजाणएहिं सव्वन्नूहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिंडगं आयारो जाव दिट्ठिवाओ इच्चेइयाई दुवालसुयं गणिपिडगं चउद्दसपुव्विस्स सम्मसुयं अभिन्नदस पुविस्स सम्मसुयंति ॥ से तं सम्मसुयं से किं तं मिच्छसुयं जं इमं अन्नाणिएहिं मिच्छदिट्ठिहिं सच्छंद बुद्धिमयविगप्पियं, नवरं रामायणं - भारहं भीमासुरुक्ककोडिल्लयं सगडभद्दियाओ खोडगुहं कप्पासियं नागसुहमाकणगसतरीवयसेसियं बुद्धवयणं विसियं काविललोगायितं सट्ठितं तं माढरं पोराणं वायरणं नाडगाई अथवा बावत्तरिकलाओचत्तारिवेयाणं संगोवंगाणं एयाइ मिच्छदिट्ठिस्स मिछित्तपरिग्गहियाई मिच्छसुयं एयाणि चेव सम्मदिट्ठिस्स समत्तपरिग्गहियाइ सम्मसुयं, अहवा मिच्छदिट्ठिस्स वि सम्मसुयं कम्हा सम्मत्तहेतुत्तणओ जहा ते मिच्छदिट्ठिणो तेहिं चेव गमएहिं चोइयासमाणासपक्खे दिट्ठाउ वमंति साम्प्रतं न केवलं स्वसमय एव मया लेखनीयः किं तर्हि परव्याकरणाद्यवबोधम् परतर्कादीनाम् अवगमं च विना साम्प्रतिकानां मन्दमतितया स्वसमस्यापि दुर्बोधत्वाद् अशक्यसमर्थनत्वाच्च परव्याकरणान्यपि साधुकृते लेखनीयानि । तथा पाठकसाधूनां वसत्याद्युपष्टम्भेन पुस्तकदानेन च कुतीर्थ्या जर्यताम् आगते प्रवचने भव्यसत्त्वबोधोपि मदभिसन्धित्सितः सम्पत्स्यते इति चूतिचन्तां गाथापञ्चकेन आह 'छद्दरिसणगाहा' जिन सौगत- सांख्यजैमनीय नैयायिक लोकायतिकमतभेदात् षड्दर्शनानि प्रवादास्तेषां तर्काः तत्तन्मतव्यवस्थापक निप्रमाणशास्त्राणि तद्भिदः तद् रहस्याभिज्ञा: कुतीर्थिकानां द्विजातीनां सिद्धान्ताः श्रुतिस्मृतिपुराणादयः तज्ज्ञायकास्तकुशलाः धणियं, नितान्तां परतीर्थिकानां तर्क सिद्धान्तावबोधं हि बिना प्रतिपक्षविक्षेपेण स्वपक्षसमर्थना योगात्, ऐतेन स्वसमयपरसमयविदस्ते इत्युक्तं भवनि, न च परसमयानां मिथ्यात्वाङ्कितत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org