SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय समयसुन्दर : व्यक्तित्व एवं कृतित्व कविवर की तार्किक शैली इतनी सटीक एवं अकाट्य है कि उसका प्रतिपक्षी . निरुत्तर हो जाता है । उदाहरणार्थ - > ननु - ये एकत्रिंशद् द्वात्रिंशद्वा सिद्धान्तान् मानयन्ति न पञ्चचत्वारिंशत् ते स्वमानितसिद्धान्ताऽनुक्तान्यपि कर्त्तव्यानि कुर्वन्ति न वा ? उच्यते - शतश: कुर्वन्ति, ततस्तेषां प्रत्यक्षं वचनोक्तो विरोधः, तत्रार्थे ते प्रष्टव्या इत्थं भोः । श्रावका नमस्कारान् गुणयन्ति तत् कस्मिन् सिद्धान्ते प्रोक्तमस्ति ? श्रावकाणां सांप्रतं क्रियमाणप्रतिक्रमणादिविध्यनुक्रमः क्रियते तत् कस्मिन्? श्रावकैर्मुखवस्त्रिका गृह्यते तत् कस्मिन् ० ? साधुभिः पुस्तकादीनि रक्ष्यन्ते तत् कस्मिन् ०? ओघ १. कल्प २. चोलपट्टक ३. मुखवस्त्रिका ४. मानं क्रियते तत् कस्मिन् ? पात्रकाणां लेपनं तत् कस्मिन्? अलसेलरोगादिकूपिका रक्ष्यते तत् कस्मिन् ० ? त्रिपणे दवरको दीयते तत् कस्मिन् ०? झोलिकायां ग्रन्थिः प्रदीयते तत् कस्मिन् ० ? गोचरीगमने वामबाहौ झोलिका स्थाप्यते तत् कस्मिन् ०? साध्वादिभिर्मुखवस्त्रिकां पाशकदवरकाभ्यां कर्णयोर्धार्यते तत् कस्मिन् ०? श्रावका यदा वन्दन्ते तदा साधुभिर्हुङ्कारः क्रियते तत् कस्मिन् ०? पटीप्रावरणे वामस्कन्धे आद्रियते, दक्षिण उद्घाटितो रक्ष्यते तत् कस्मिन् ? ओघे उर्णादिदशिका, बध्यन्ते तत् कस्मिन् ० ? त्रिपणे कण्ठको बध्यते तत् कस्मिन् ? कटौ साधुभिर्दवरको बध्यते तत् कस्मिन्०? मषीभाजनं रक्ष्यते तत् कस्मिन् ० ? गोचारों कुर्वतां (पर्यटतां ) साधूनां पश्चाद् गृहस्था भ्रमन्ति तत् कस्मिन्० आर्याः साधून् आपृच्छ्य विहरणार्थं यान्ति तत् कस्मिन् ० आर्याणामुपकरणानि मानोपेतानि क्रियन्ते तत् कस्मिन् ० ? पानीयं प्रासुकं कियत् कालं तिष्ठति तत् कस्मिन् ० ? पक्वान्नं कियत्कालमविनष्टं सत्तिष्ठति तत् कस्मिन् ० ? छिम्पकादिधौतवस्त्रधावनं गृह्यते तत् कस्मिन् ० ? जिनप्रतिमावन्दनपूजादीनां श्रावकाणां प्रत्याख्यानं कार्यते तत् कस्मिन् ० ? चैत्राश्विनमासयोः अस्वाध्यायो गण्यते सूत्रपठनादो तत् कस्मिन् ०? श्रावका एकादशप्रतिमां विना भिक्षां याचन्ते तत् कस्मिन् ० ? श्रावकाः प्रतिक्रमणादि कुर्वन्तः प्रथममीर्यापथिकीं प्रतिक्रमन्ति तत् कस्मिन् ०? श्रावकैः करेमि भन्ते ! इत्यादि दण्डकोच्चारणं क्रियते तत् कस्मिन्० ? ईर्यापथिकी तस्सोत्तरी-लोकस्योम्द्योतकरवन्दकप्रभृतीनां पाठः कथ्यते तत् कस्मिन्० ? प्रत्याख्याने आकाराः कथ्यन्ते तत् कस्मिन्? श्रावकैः वंदित्तुसूत्रं प्रतिक्रमणे कथ्यते तत् कस्मिन् ० ? प्रतिक्रमणादिक्रियां कुर्वद्भिः श्रावकैः उपवेशनोत्थानादिकायचेष्टा क्रियते तत् कस्मिन् ०? उच्छिष्टान्नं गृह्यते तत् कस्मिन् ०? श्रावकैश्चोलपट्टको म्रियते तत् कस्मिन् ० ? शेषकाले पीठफलक पट्टिकापरिभोगः क्रियते तत् कस्मिन्०? साधुश्राद्धानां आलोचनादिं प्रायश्चितं च प्रदीयते तत् कस्मिन् ०? पोषधादिग्रहण-पारणविधिः साम्प्रतं विधीयते तत् कस्मिन् ० ? सामायिक दण्डके दुविहं तिविहेणमित्येवास्ति सिद्धान्ते, न तु मणेणमित्यादियुक्तिः परं साम्प्रतं क्रियते तत् कस्मिन्० ? कायमुखवस्त्रिकादीनां पञ्चविंशतिः प्रतिलेखना क्रियते तत कस्मिन् ०? साधर्मिकाणां हस्ते गृहे वा खण्डपुटकाः प्रदीयन्ते द्रम्मादीनां वा लम्भनिका क्रियते तत् कस्मिन् ०? २९० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012071
Book TitleMahopadhyaya Samaysundar Vyaktitva evam Krutitva
Original Sutra AuthorN/A
AuthorChandraprabh
PublisherJain Shwetambar Khartargaccha Sangh Jodhpur
Publication Year
Total Pages508
LanguageHindi
ClassificationSmruti_Granth
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy