________________
१२
श्रीमद् विजयराजेन्द्रसूरि- स्मारक ग्रंथ
असारं संसारं य इममवगच्छन् यतिवरो, विहायेमं कार्यं कृतमहितदेहो दिवमगात् ॥ मनीषित्रातानां तमिह परिगेयं सहृदयं,
कृतीन्द्रं राजेन्द्रं प्रथित- गुणवृन्दं परिणुमः जयन्ति श्रीसद्वाचक विजय युग्मोहनसुधीः,
कृपालेशाद्यस्य प्रथितमहसो दीपविजयः । इमे लक्ष्मीहंसौ विजयसहितौ शान्तिविजयः,
तमीशं राजेन्द्रं प्रथितगुणवृन्दं परिणुमः वदान्यं सम्मान्यं बुधगणशरण्यं बुधवरं,
कृपापारावारं विनयनिचयव्याप्तहृदयम् । विराजत्स्याद्वादाम्बुजनिकर मार्तण्डम सकृत्,
कृतीन्द्रं राजेन्द्रं प्रथितगुणवृन्दं परिणुमः
सगधरा-वृत्तम्
॥ ६ ॥
|| 9 ||
॥ ८ ॥
श्रीमद्राजेन्द्रसूरीश्वरबुधनिवहस्तुत्य पादारविन्द
द्वन्द्वस्यादो महीयः स्तवनमविरतं यः पठेद् भक्तियुक्तः । तस्य स्यात्सर्वमिष्टं फलमिह नियतं निर्ममौ मोदवृत्तो,
धीरः श्रीघूटराख्यो द्विजकुलजननो मैथिलो झोपनामा ॥ ९ ॥
- पं० घूटरझा - मैथिल, मढ़िया ।