________________
गुरुगुणाष्टक और स्मरणाअलि । बुधगणशरण श्रीमद् राजेन्द्रसूरि
(५)
॥ १ ॥
लसत्तेजोराजि विलसितसुविद्यालिसरसी
मरालं वाग्मीशं सदसि महतां सन्मतिमताम् । विपक्षालीकक्षज्वलिततरवैश्वानरवरं,
कृतीन्द्र राजेन्द्र प्रथितगुणवृन्दं परिणुमः विपश्चिद्वन्दाम्भोरुहनिवहसम्मोदनकृतौ,
दिवानाथं नाथं निखिलजिनपक्षाश्रितसताम् । यतीन्द्रं सूरीन्द्रं कृतमहितकीर्ति कृतिजनैः,
सुवन्धं राजेन्द्रं प्रथितगुणवृन्दं परिणुमः यशश्चन्द्रो यस्यानिशमतिशयं मोदनिचयं,
ददानो विद्याविद्वजकुमुदवृन्दाय भुवने । परान्जालिग्लानि विदधदिह संराजतितरां,
कृतीन्द्रं राजेन्द्रं प्रथितगुणवृन्दं परिणुमः
॥२॥
॥ ३ ॥
॥४॥
यदीया सच्छिष्या विदितबहुविद्याः प्रतिपलं,
गुरुं स्मारं स्मारं ललितकृतिमारं विदधति । तमानन्दाकारं सुजिनमतपारङ्गमतरं,
कृतीन्द्रं राजेन्द्रं प्रथितगुणवृन्दं परिणुमः पयोराशिश्वेतोज्वलितसदने यस्य सुभगा,
विराजन्ती मूर्ति-जननिकरवन्द्या विलसति । दिगन्ते विख्यातं विततकृतिजातं तमतुलं,
कृतीन्द्रं राजेन्द्र प्रथितगुणवृन्दं परिणुमः
॥ ५ ॥