________________
गुल्गुणाएक और स्मरणालि। महान् जैनागमप्रवेत्ता श्रीमद् राजेन्द्रसूरि
(२)
जिनेन्द्रप्रोक्तैर्यो ललितवचनैः खेदरहितो,
विनेयेभ्यः शिक्षा वितरति नयासामनुदिनम् । यथा लोके सारी कुपथतुरङ्गेभ्य उचितां,
स राजेन्द्राऽऽचार्यो भवतु नियतं मे सुनयदः ॥ १॥ यदीयाह्वां स्मन्नुपमपदधर्ता क्षितितले,
कुटुम्बानां भर्ता विविधसुखकर्ता प्रियतमः । अजेयः संग्रामे विगतभयशोकश्च भवति,
स राजेन्द्राऽऽचार्यों प्रतिदिनमुरःस्थो भवतु मे ॥२॥ विमलमतिकः सज्ज्ञानाब्धिविवेकीगणाग्रणी
श्चरणसदने क्रीडन्नास्ते समाधिधिया सदा । विषयभवान्नष्टप्रेमा फणीव कुकञ्चुकात्,
स हि विजयराजेन्द्राऽऽचार्यः कुवादिनिरासकः ॥ ३ ॥
अनलसतया धर्मध्यानपुकारकरोदयी,
विहरणपरः सज्जीवानां शिवाऽध्वनि योजकः । हितसुखकरो यः संघानां भवोदधिवारकः,
वितरतु स राजेन्द्राऽऽचार्यः शिवर्द्धिसुखानि मे ॥ ४ ॥ निखिलसमयवेत्तैकोऽस्ति राजेन्द्रसूरि
विषयरिपुनिहन्तै कोस्ति राजेन्द्रसूरिः । स खलु चरणधर्तेकोऽस्ति राजेन्द्रसूरि
हृदयभवनदीपो मेऽस्तु राजेन्द्रसूरिः