SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीमद् विजयराजेन्द्रसूरि-स्मारक-प्रय यः कर्ता जिनबिम्बकाञ्जनशलाका नामनेकाऽऽत्मनां मूर्तिश्चापि जिनेश्वरस्य शतशः प्रातिष्ठिपन्मन्दिरे । जीर्णोद्धारमनेकजैननिलयस्याचीकरच्छावकै स्तं सत्कार्यकरं मुदा गुरुवरं राजेन्द्ररिं नुमः ॥ ४ ॥ लोके यो विहरन् सदा स्ववचनै मिथो देहिनां, दूरीकृत्य सहानुभूतिरुचिरां मैत्री समावर्धयत् । मूढाँश्चापि हितोपदेशवचसा धर्मात्मनः संव्यधाद् , देशोपद्रवनाशकं तमजितं राजेन्द्रसूरि नुमः ॥ ५ ॥ यो गङ्गाजलनिर्मलान् गुणगणान् संधारयन् वर्णिराड् , यं यं देशमलञ्चकार गमनस्तं तं वपायीन्मुदा। सच्छास्त्रामृतवाक्यवर्षणवशाद् मेघव्रतं योऽधरन् , तं सज्ज्ञानसुधानिधिं कृतिनुतं राजेन्द्रसूरि नुमः ॥ ६ ॥ तेजस्वी तपसा प्रदीप्तवदनः सौम्योऽतिवक्ताचलः, शास्त्रार्थेषु परान् विजित्य विविधैर्मानैस्तथा युक्तिभिः । शिष्यांस्तानकरोत्स्वधर्मनिरतान् यो ज्ञानसिन्धुः प्रभु स्तं सूरिप्रवरं प्रशान्त-वपुर्ष राजेन्द्रसूरिः नुमः ॥ ७ ॥ लोकान्मंदमतीन्स्वधर्मविमुखप्रायान् बहून् वीक्ष्य यो, जैनाचार्यनिबद्धसर्वनिगमानालोड्य बुद्ध्या चिरम् । मान् बोधयितुं सुखेन विशदान् धर्मान्महामागधी कोशं संव्यतनोत्तमच्छमनसा राजेन्द्रसूरि नुमः ॥ ८॥ गुरुवरगुणराजिभ्राजितं सारभूतं, परिपठति मनुष्यो योऽष्टकं शुद्धमेतद् । अनुभवति स सर्वां सम्पदं मानवानामिति वदति मुनीशो वाचको मोहनाख्यः ॥ ९ ॥ -उपाध्याय श्रीमोहनविजयजी महाराज ।
SR No.012068
Book TitleRajendrasuri Smarak Granth
Original Sutra AuthorN/A
AuthorYatindrasuri
PublisherSaudharmbruhat Tapagacchiya Shwetambar Shree Sangh
Publication Year1957
Total Pages986
LanguageEnglish, Hindi
ClassificationSmruti_Granth & Articles
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy