________________
सचीवस्थानस्य स्वीकारात् पूर्वम् नृपं प्रति वस्तुपालेन उक्तम् वचनम् अतीव मननीयमस्ति।
प्रप्रथमम् सः राज्ञः गुणान् श्लाधयित्वा कलियुगस्य दुष्प्रभावाना वर्णनं कृत्वा अन्ते तेन उक्तम् "हे विचक्षण राजन् ।। भवतः अनुग्रहेण वयं आत्मानः धन्यान् मन्यामहे। परंतु वयं श्रमण भगवतः महावीर देवस्य धर्म शासने श्रद्धावन्तः श्रावकाः। जिनेश्वर देवः, निग्रंथ गुरूः, सर्वज्ञ प्रणितः धर्मश्च अस्माकम आराध्य तत्वानि। तथापि इहलोके निंदा यथा न भवेत, परलोके च दुःख न प्राप्स्यामः तथा राजनीति धर्मनीत्योः समतोलनभावेन जीवितुम् इच्छामः । न्याय रक्षाणार्थ सर्वत्र निस्पृह भावेन पक्षपात राहीत्येन् च प्रयत्नः करणीयः। शुत्र जनाः निग्रहितव्याः तथा प्रजानाम् क्षेमवृद्धि साधनीयाः इत्यादीनि अस्माभिः अवश्यम् कर्तव्य कर्माणीति।
एतैः विवेकपूणैः मधुरवचनैः वीरधवलः तस्य पिता लवणप्रसादस्य नितरां संतुष्टौं। तथा वस्तुपालस्य प्रार्थना अंगिकृतवन्तौ। अनन्तरं वस्तुपालेन गुर्जरसाम्राज्यस्य मंत्रीमुद्रा स्वीकृता तथा सप्ताहाभ्यान्तरमेव राज्यस्य सुव्यवस्था साधीता, उचित कर ग्रहणादिभिः राज्यभंडारमपि सम्परितम्। समस्त राज्यस्य दायित्वं स्वयं स्वीकृत्य बहनि राष्ट्रोन्नति कार्याणि अकरोत्। सः आबू पर्वतस्योपरि बहधनव्ययेन, प्रयासपूर्वक जिनमंदिरम् निर्मापितवान्। तेन् सहैव सः मुस्लिम् जनानाकृते प्रार्थनामंदिराणि अपि स्थापितवान्। एतादृशः पक्षपातः रहितः, उदारि सः इतिहास प्रसिद्धः अस्ति।
एवमरीत्याम् भामाशाः नामकः महाराणा प्रतापाय कष्टकाले अगणित प्रमाणकं द्रव्यराशि दत्वा तस्य सहाय्यं कृतवान्।
प्रस्तुतकाले युगद्रष्टा आचार्यः विजय बल्लभसूरि महाराजोपि विश्वविद्यालय स्थापयितुम् इच्छन् महावीर विद्यालयः, अनेके रूग्णालयाः, उद्योगगृहाणि, शिक्षणसंस्थानि इत्यादिनि संस्थापितवान्। एतस्य महापरुषस्य स्मरणार्थमेव इदानीम् "बल्लभस्मारक" निर्मितमस्ति।
एवं रीत्या एव अनेके महापुरुषाः जैन समाजे जन्मप्राप्त तीर्थोन्नतिम् राष्ट्रोन्नतिम् साधितवन्तः।
साध्वी नयनानंद श्रीः
Jain Education international
FORPIVespersoamine-only
www.jainelibrary.ord