________________
જ્ઞાનાંજલિ ॥ प्रशस्तिपत्रम् ॥ आत्मानन्दमहर्षिशिष्यप्रमुख: प्रज्ञावतामग्रणीः
श्रीयुक्तो मुनिराजकान्तिविजयः प्रावर्तको गीयते । तच्छिष्यश्चतुरादिमो हि विजयश्चातुर्यशाली महान्
___तच्छिष्यो मुनिराजपुण्यविजयो जीयात्समाः शाश्वतीः ॥ १॥ धैयाँदार्यगुणविराजितमना दाक्षिण्यदानयुतः ।
ख्यातः साम्यगुणेन विश्वहितकृद् विद्याचणो बुद्धिमान् । कार्याकार्यविचारचारुधिषणः शास्त्रेषु पारङ्गभी
सोऽयं श्रीमुनिराजपुण्यविजयो जीयात्समाः शाश्वती: ॥ २ ॥ शास्त्राणामपि शोधने नवनवोन्मेषान्दधत्सर्वदा
ऐतिये कुशलो विनोदरसिको येक: पुरातत्त्वविद् । व्याख्याता च विशेषतः स्वसमये जैनागमे भास्कर:
सोऽयं श्रीमुनिराजपुण्यविजयो जीयात्समा: शाश्वतीः ।। ३ ।। कीतिर्यस्य च भारते शुचितमा जापानदेशे तथा
जर्मन्यां च सुविस्तृता गतिमती दूरं ततो भूतले । साह्लादाश्च भवन्ति ते सुमनसः सम्मील्य सावुत्तमं
सोऽयं श्रीमुनिराजपुण्यविजयो जीयात्समाः शाश्वतीः ।। ४ ।। भाण्डागारगतांश्च हस्तलिखितान् श्रीस्तम्भने पत्तने
स्थित्वा जेसलमेरके च नगरे ग्रन्थान्समुद्धारयन् । श्रीमत्पत्तनके वसन्बहुसमाः कार्यं तदेवोढ वान्
सोऽयं श्रीमुनिराजपुण्यविजयो जीयात्समाः शाश्वतीः ॥ ५ ॥ कांश्चित् फिल्मगताननेकविधिना कांश्चित्प्रतिच्छायया
सङ्गृह्यात्मसमाननल्पधनतोऽमूल्यान्मणीग्रन्थकान् । श्रीलादाख्यसुभारतीयभवने तान्तान्समानापिपत्
सोयं श्रीमुनिराजपुण्यविजयो जीयात्समाः शाश्वतीः ॥ ६ ॥ सत्सम्पादनकार्यकौशलवता ग्रन्था न सम्पादिताः
प्रावीण्यं च दधाति लेखविषये लेखान् लिखन्सर्वथा । बाल्यादागमपाठरागवशतः सम्पादयन्नागमान्
सोऽयं श्रीमुनिराजपुण्यविजयो जीयात्समाः शाश्वतीः ॥७॥ जैनः सन्नपि भिन्नभिन्नमतगे विप्रादिकेऽकिञ्चने
साहाय्यं द्रविणं प्रदापयति यः स्त्रीपुम्भिदं सन्त्यजन् । आचार्यार्थगुणैविभाति सुतरां नापेक्षते तत्पदम् सोऽयं श्रीमुनिराजपुण्यविजयो जीयात्समाः शाश्वतीः ॥ ८ ॥
ले. विदुषामनुचरः अहमदाबाद
हरिशङ्कर अम्बाराम पण्डया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org