________________
અભિવાદન
स्तम्भतीर्थ
Jain Education International
॥ किञ्चत्प्रासङ्गिकम् ॥
चक्रं भ्रमति विश्वस्य लोका आयान्ति यान्ति च । स्त्रस्वकर्मण्यभिरताः केचित्तिष्ठन्ति सर्वदा ॥ १ ॥ तथास्मिन्विद्यते लोके पूज्यपूज्यमहामुनिः । श्रीपुण्यविजयो नाम पुण्यं पुण्यवतां सताम् ॥ २ ॥ आत्माराम गुरोस्तद्वत्कान्तिविजयस्ततः । चतुरविजयेभ्यश्व प्राप्तविद्यः क्रमादसौ ॥ ३॥
आत्मवान्कान्तियुक्तश्च चतुरः समजायत । वयस्यत्पे मुनेर्दीक्षां गृहीत्वाऽशिक्षयज्जनान् ॥ ४ ॥ गहनागमशास्त्रेषु कृतभूरिपरिश्रमः । प्राकाशयत शास्त्राणि वनानीव विभाकरः ॥ ५ ॥ मुनित्रयश्व 'विजया: ' वल्लभहंसकान्तयः । वटोदरस्थसंवेभ्यः जीवनं दापयन्ति च ॥ ६ ॥ वटोदरश्रीसङ्घन " आगमानां प्रभाकरः । सार्थेनोपधिना तेन भूषितो यतिराडसौ ॥ ७ ॥ नैरुज्यं भास्करो दद्याद्विश्वदेवाश्व शं तथा । ऋतवः सन्तु वो भद्राः जोवन्तु शरदां शतम् ॥ ८ ॥ ॥ तत्र श्री ऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ वटोदरम्
12
॥ आगमप्रभाकरविजयः ॥
आगमशास्त्रकोविदः, मुनिश्री पुण्यपालकः । गच्छभेदेन न स्पृष्टः, तुष्टः ज्ञानामृते सदा ॥ १ ॥ मतानेकान्तवादी च विषमे समतारसः । प्रभावशाली नेता च, सदैव कार्यतत्परः ॥ २ ॥ भाग्यवांस्त्वां समाप्नोति, परराष्ट्रेऽपि व्यापकः । कर्त्ता च संस्कर्ता च सरलामागमपद्धतिम् ॥ ३ ॥ रक्षायां सदाकुशलः पुराणनवज्ञानवान् । विद्याध्ययनदाने च विद्वन्मूल्यांकने सदा ॥ ४ ॥ जयंश्च स मुनिपुण्य - विजयो ज्ञानिपर्षदि । यतीनां च गृहिणां च स भवेन्मार्गदर्शकः ॥ ५ ॥
For Private & Personal Use Only
।૩
धनसुखलाल शास्त्री
छबिलदास केसरीचन्द संघवी
www.jainelibrary.org