________________
॥ पुण्योदयप्रशस्तिः
॥
पुण्यमूति: पुण्यचेता: पुण्यधी: पुण्यवाङ्महाः । पुण्यकर्मा पुण्यशर्मा श्रीपुण्यविजयो मुनिः ॥ १।। निसर्गवत्सलो धीरो विशालहृदयस्तथा । परोपकारप्रवणो नम्रसौम्यस्वभावभाक् ॥ २॥ उदात्तचिन्तनो दीप्रप्रज्ञो वाचंयमस्तथा ।। निर्भीकः सत्यसामर्थ्यप्रभाप्रसृमरोदयः ।। ३ ।। जेन-वैदिक-बौद्वानां शास्त्रषु सुविशारदः । सम्माननीयो विदुषां विद्यासंस्थेव जङ्गमा ॥ ४ ॥ यदीयो व्यवसायश्च मुख्यरूपेण वर्तते । श्रेष्ठपद्धतितः प्राच्यशास्त्राणां परिशोधनम् ॥ ५॥ बहुप्राचीनशास्त्राढ्यभाण्डागारावलोकनम् । कृत्वा श्रमेण योऽकार्षीत् तेषामुद्धारमुत्तमम् ॥ ६ ॥ महामेधाविना येन प्राचीना बहुगौरवाः ॥ ७ ॥ ग्रन्थाः सम्पादिताः सन्ति विद्वदानन्दकारिणः ।। ७॥ विद्यासङ्गपरायणो मुनिपदालङ्कारभूतक्रियः
श्रेष्ठाचारी
राचारविचारपूतविकसवैदुष्यनिष्पादितम् । भव्यश्लोकमनल्पधाममहिमा बिभ्रन्महासात्त्विको
जीयाद् विश्वजनाय पुण्यविजयः पुण्यप्रकाशं दिशन् ॥८॥ माण्डल ( वोरमगाम)
मुनिन्यायविजयः ॥ पुण्यस्तवः ॥ अजातशत्रवे विश्वमित्राय स्नेहमूर्तये । सर्वेषां च हितं कर्तुं तत्पराय निसर्गतः ।। १॥ महाविपश्चिते प्राच्यशास्त्रशोध-प्रकाशने । समपितस्वनिःशेषजीवनस्थामसम्पदे ॥२॥ चारित्रोद्योतदीप्राय निःस्पृहायाभयाय च ।
श्रीपुण्यविजयायास्तु नमः पुण्यविभूतये ॥ ३ ॥ माण्डल (वीरमगाम )
मुनिन्यायविजयः वि.सं. २०२४, भाद्रपद-अमावास्या ।
सा.स. १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org