SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ પુણ્યશ્લેક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખો તથા પ્રશરિતલેખ [૩૧૯ मुअ-भोजमुखाम्भोजवियोगविधुरं मनः । श्रीवस्तुपालवक्त्रेन्दौ विनोदयति भारती ॥९॥ देवे स्वर्गिण्युदयनसुते वर्तमानप्रभूणां __दूरादर्थी विरमति बत! द्वारतो वारितः सन् । दिष्टयै तस्मिन्नपि कुसमये जातमालम्बनेन स्वच्छे वाञ्छा फलति महतां वस्तुपाले विशाला ॥ १० ॥ उत्कर्षोऽयमथापकर्षविषयः सद्भ्यो न शकामहे ये चाऽरोचकिनः सदा कृतधियस्तेभ्यस्तु बद्धोऽञ्जलिः। पतस्थानुगुणोपमानरसिका दाने दमे पौरुषे किं कुर्मो मतिरन्यमेति न समुत्कम्पाऽपि चम्पाधिपे ॥ ११ ॥ अन्ये वाचि परे क्रियासु सचिवाः सन्त्येव राजाङ्गणे शङ्के यैरनुशीलितं गुरुकुलं मा साहसाः पक्षिणः । आशाराजसुतस्तु स स्तुतिपदं श्रीवस्तुपालः सता मेकः कर्मणि वाचि चेतसि समुजागतिं यः कार्यिषु ॥ १२ ॥ पालने राजलक्ष्मीणां लालने च मनीषिणाम् । अस्तु श्रीवस्तुपालस्य निरालस्यरतिर्मतिः ॥१३॥ ॥ एतानी पण्डितआमभ्रातृपण्डितदोदरस्य ॥ छ ॥ प्रशस्तिलेखाङ्क-८ स्वस्ति श्रीभूमिसीमाविपिनपरिसरात् क्षीरनीराब्धिनाध[ :] पृथ्व्यां श्रीवस्तुपालं क्षितिधवसचिवं वोधयत्यादरेण । अस्यामास्माकपच्यां कुपुरुषजनितः कोऽपि चापल्यदोषो निःशेषः सैष लोकम्पृण] गुण ! भवता मूलतो मार्जनीयः ॥१॥ -पं० जगसीहस्य ॥ प्रशस्तिलेखाङ्क-९ कलिकवलनजाग्रत्पाणिखेलत्प्रतापधुतिलहरिनिपीतप्रत्यनीकप्रतापः । जयति समरतत्त्वारम्भनिर्दम्भकेलिप्रमुदितजयलक्ष्मीकामुको वस्तुपालः ॥ १॥ त्वं जानीहि मयाऽस्ति चेतसि धृतः सर्वोपकारवती, किं नामा? सविता, न, शीतकिरणो, न स्वर्गिवृक्षो, न हि । पर्जन्यो, न हि, चन्दनो, न हि, ननु श्रीवस्तुपालः, त्वया ज्ञातं सम्प्रति, शैलपुत्रि-शिवयोरित्युक्तयः पातु वः ॥२॥ सारस्वताऽम्भोनिधिपार्वणेन्दुः श्रीवस्तुपालः सचिवाधिराजः। चिरं जयत्वेष सहाऽनुजन्मा सपुत्रपौत्रः सपरिच्छदश्च ॥ ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy