SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ १६] જ્ઞાનાંજલિ यस्य साहित्यपाथोधिपदवीपारदृश्वनः । श्रयन्ति वाग्वहित्राणि विचित्राणि कवीश्वरोः ॥१४॥ आमोदं सुमनःसु संविधती पुंस्कोकिलप्रेयसी नादश्रीसुहृदां मुहुः कविगिरामुन्मुद्रयन्ती पथः। माकन्दाकुरमञ्जरीमिव गुणश्रेणि समातन्वती सेयं हन्त ! वसन्तपाल ! भवतः कीर्तिर्वसन्तायते ॥ १५ ॥ आजन्माऽपि शये कृताय सुकृतस्तोमाय यत्नान्मया । ___यद्यासाद्यत कोऽपि दूषणकणः श्रीवस्तुपाल ! त्वयि । यत्कल्पद्रुमपल्लवद्युतिमवष्टभ्यैव कल्पद्रुमं पाणिधिक कुरुते तवैष मनुते कोऽमुं न दोषाश्रितम् ॥ १६ ॥ ॥ एते कविसार्वभौमश्रीहरिहरस्य ॥ छ । प्रशस्तिलेखाङ्क-५ मुखमुद्रया सहान्ये दधति करे सचिवमन्त्रिणो मुद्राम् । श्रीवस्तुपाल ! भवतो वदान्य ! तद् द्वितयमुन्मुद्रम् ॥१॥ कीतिः कन्दलितेन्दुकान्तिविभवा, धत्ते प्रतापः पुनः प्रौढिं कामपि तिग्मरश्मिमहसां, बुद्धिर्बुधाराधनी । प्रत्युजीवयतीह दानमसमं कर्णादिभूमीभुजः, तत् किञ्चिन्न तवास्ति यन्न जगतः श्रीवस्तुपाल! प्रियम् ॥२॥ गीतं न स्वदते, धिनोति न विधुः, प्रीणाति वीणा न सा, ___ काम्यः सोऽपि न कोकिलाकलवरः(? रवः), श्रव्यो न हंसस्वनः । वाग्देवीपदपद्मनूपुर ! यदि श्रीमल्लदेवानुज ! श्रूयन्ते सचिवावतंस! भवता संकीर्तिताः सूक्तयः॥३॥ तिष्ठन्तोऽपि सुदूरतस्त्रिभुवनव्याप्तिप्रगल्भात्मना तेन त्वद्यशला वयं सुमनसो निर्वासिताः सद्मनः । तैरेतैरिहि तद्विरोधिरभसाद् वद्धा स्थितिस्ते हृदि क्षन्तव्यं कविबान्धवेन तदिदं श्रीवस्तुपाल ! त्वया ॥४॥ ॥ एते महामात्यश्रीवस्तुपालपरममित्रमन्त्रिश्रीयशोवीरस्य ॥ छ । प्रशस्तिलेखाङ्क-६ स्वस्ति श्रीवस्तुपालाय शालन्ते यस्य कीर्तयः । व्योम्नि यन्माति गौराङ्गीधम्मिल्ल इव मल्लिकाः ॥ १॥ श्रीरामः सुकृतसुतो वसन्तपालः किं वाच्यः शुचिचरितानि यद्यशांसि । आधत्ते विसविशदोपवीततन्तुव्याजेनोरसि रसिकः स्वयं स्वयंभूः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy