SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ [ ૩૨૫ પુણ્ય લોક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખ તથા પ્રશસ્તિલેખ परीहासप्रौढाः शिवशिखरिभासां विदधतो मराली मालिन्यं मुषितमहिमानो हिमगिरेः । त्रियामाजीवातोः कवलितकलङ्काः प्रतिदिशं दिशन्ति प्रागल्भी यदसमयशःपूरविसराः ॥५॥ यस्य स्तस्भपुरे पराक्रमचमत्कारेण पारे गिरामुद्ग्रोवोऽपि नमन्नमन्दसमराहकारकारस्करात् । सामापसृतप्रधावितहयप्रस्वेदविन्दूत्करैरनाक्षीदयशःप्रशस्तिमसितैः सङ्ग्रामसिंहः पथि ॥६॥ क्षीरं क्षारममोदिनी कुमुदिनी राका वराकी हता श्रीहीनास्तुहिनावनीवरभुवो मन्दैव मन्दाकिनी । निःसाराणि सरोरुहाणि न च ते हसाः प्रशंसास्पदं यत्कीर्तिप्रसरे सुरेभदशनच्छाये दिशश्चुम्वति ॥ ७ ॥ यस्यान्धङ्करणेऽपि भूयसि धने निःशेषशास्त्रागम ज्ञानज्योतिरपास्तमोहतमसो नाऽभून्मदप्रश्रयः। नोन्मीलन्ति च धर्मवर्मिततनोरुदामकामभ्रम चापप्रेरितमार्गणव्यतिकरव्यापिव्यथावीचयः ॥ ८॥ वप्राभः कनकाचलः स परिखामात्र निधिः पाथसां द्वीपान्यङ्गणवेदिका परिसरो विन्ध्याटीनिष्कुटः । यस्याऽचुम्बितचित्रबुद्धिविलसञ्चाणक्यसाक्षात्कृते. रुद्योगे करगर्तनतितजगत्यव्याजमुन्मीलति ॥ ९॥ तीर्थयात्रामिपाद् येन तवन्ता दिग्जयोत्सवम् ।। पराभवो विपक्षस्य बलिनोऽपि कलेः कृतः ॥ १० ॥ दिग्धैर्दुग्धमहोदधौ हिमगिरौ स्मेरैः शिवे सादरैः सास्फोटैः स्फटिकाचले समुदयत्तोषैस्तुषारविषि । रेजे यस्य विकस्वराऽम्बुजवनस्तोमेषु रोमाञ्चितै रुन्मीलन्मदराजहंसरमणीरम्यैर्यशोराशिभिः ॥ ११ ॥ यहान यदसीमशौर्यविभवं यद्वैभवं यद्यशो यवृत्तं भणदोष्ठकण्ठमभजत् कुण्ठत्वमेतस्य यत् । आजन्मास्खलितैर्वचोभिरभजद् भङ्गप्रसङ्गैः कथं साम्य यातु वसन्तपालकृतिना तस्माद् गिरामीश्वरः ? ॥ १२ ॥ ते नीहारविहारिणः, कवचितास्ते चन्दनैः स्यन्दिभिः, ते पीयूषमयूषमनवपुषः, ते पद्मसन्माश्रिताः। माकन्दाङ्करमञ्जरीनिगडिताः क्रीडन्ति ते सन्ततं, सिक्ताः सूक्तिसुधारसेन सुकवेः श्रीवस्तुपालस्य ये ॥ १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012058
Book TitleGyananjali Punyavijayji Abhivadan Granth
Original Sutra AuthorN/A
AuthorRamnikvijay Gani
PublisherSagar Gaccha Jain Upashray Vadodara
Publication Year1969
Total Pages610
LanguageGujarati, Hindi, English
ClassificationSmruti_Granth & Articles
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy