________________
પુણ્યશ્ર્લેાક મહામાત્ય વસ્તુપાલના અપ્રસિદ્ધ શિલાલેખા તથા પ્રસતિલેખા
भवति विभवे पुंसां चक्षुस्तृतीयमिति श्रुतिर्न तु कुमतयस्ते वीक्षन्ते सति त्रितये दृशाम् । अयमिह परं मन्त्री नेत्रद्वयेऽपि करस्थिता
मलकफलकप्रायां लोकद्वयीमवलोकते ॥ १२ ॥ वस्तुपाल ! सदा हस्ते सत्यप्यमृतवर्षिणि । वैरिवर्गः 'सदाहस्ते यत् तदेतदिहाद्भुतम् ॥ १३ ॥ आकर्षन सिदण्डमेव न पुनः पादं विमुञ्चन्निषु
श्रेणीमेव न मानितां विनमयन् धन्वैव नोच्चः शिरः । कम्पं दन्तपिधानमेव न मनः संख्ये दधानश्चम
त्कारं कस्य चकार नैव सचिवस्तोमैकवास्तोष्पतिः ? ॥१४ ॥
प्रासादास्तव वस्तुपाल ! त इमे तन्वन्ति चेतः सतां सानन्दं शशिशेखराद्वि शिखरग्रामाभिरामश्रियः । येषां काञ्चनकुम्भसम्भव महः सन्दोह सन्तर्पिताः
सन्त्युच्चैस्तु हिनोच्चयेऽप्युपचयं पुष्णन्ति पूष्णः कराः ॥ १५ ॥ परिपीडिता समन्ताज्जडसमयेनामुना गिरा देवी । श्रीवस्तुपालसचिवं निबिडगुणं पटमिवाश्रयति ॥ १६ ॥
उद्धृत्य बाहुमहमेष मुहुर्वेदामि ब्रूतां स मद्वचसि विप्रतिपद्यते यः । यद्यस्ति कश्चिदपरः परमार्थवेदी श्रीवस्तुपालसचिवेन समः क्षमायाम् ॥ १७ ॥ श्रीवस्तुपाल ! चिरकालमयं जयन्तसिंहः सुतस्तव भवत्वधिकाधिक श्रीः । यस्तावकीनधन वृष्टिहृतावशिष्टं शिष्टेषु दौस्थ्यदवपावकमुच्छिनन्ति ॥ १८ ॥
यथा यथाऽयं तव वस्तुपाल ! गोत्रं गुणैः सूनुरलङ्करोति । तथा तथा मत्सरिणां नराणामवैमि चित्तेष्वनलं करोति ॥ १९ ॥ पुरा पादेन दैत्यारेर्भुवनो परिवर्तिना ।
अधुना वस्तुपालस्य हस्तेनाधः कृतो बलिः ॥ २० ॥
मध्यस्थ कथयन्ति केचिदिह ये त्वां साधुवृत्त्या बुधाः
श्रीमन्त्रीश्वर ! वस्तुपाल ! न मृषा तेषामपि व्याहृतम् । कर्णोऽभूदुपरि क्षितेर्बलिरधस्त्वं चात्र मध्ये तयोः
स्थातेत्यर्थ समन्वये ननु वयं मध्यस्थमाचक्ष्महे ॥ २१ ॥ कम्पाकुलमवलोक्य प्रतिवीराणां रणाङ्गणे हृदयम् । अनुकम्पाकुलमयमपि सचिवश्चक्रे निजं चेतः ॥ २२ ॥ नरेन्द्रश्रीमुद्रा सपदि मरिरेवापहरते हताशा चैतन्यं परिचरितमालिन्यमनसाम् ।
१ दाहेन सहितः सदाहः ।
Jain Education International
[ अ
For Private & Personal Use Only
www.jainelibrary.org