________________
3001
જ્ઞાનાંજલિ
......नंदतु यावदिंदु-तपनौ सत्कर्मनिष्णाततां
पुष्णातु प्रयतो जगन्निजगुणैः प्रीणातु [१०] [लोकपृणैः । श्रेयांसि श्रयतां यशांसि चिनुतामेनांसि विध्वंसतां
स्वामिन्य......विवासनां (१) च तनुतां श्रीवस्तुपालश्चिरं ॥९॥ दुःस्थत्वेन कदीमानमखिलं भूलॊकमालोक[११ य
नाविर्भूतकृपारसेन सहसा व्यापारितश्चेतसा । पातालाद् बलिरागतः स्वयमयं श्रीवस्तुपालच्छला
त्तेजःपालमिषान्महीमनिमिषावासाच्च कर्णः पुनः ॥१०॥ तेन भ्रातृयु[१२]गेन या प्रतिपुरग्रामाध्वशैलस्थल
वापीकूपनिपानकाननसरप्रासादसत्रादिका । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जीर्णोद्धता
तत्संख्यापि न बुध्यते यदि प[१३]रं तद्वेदिनी मेदिनी ॥ ११ ॥ क्षोणीपीठमियद्रजःकणमियत्पानीयबिन्दुः पतिः
सिंधूनामियदंगुलं वियदियत्ताला च कालस्थितिः । इत्थं तथ्यमवैति यत्रिभूवने श्रीव[१४]स्तुपालस्य तां
धर्मस्थानपरंपरां गणयितुं शंके स एव क्षमः ॥ १२ ॥ यावद्दिवींदुनार्को वासुकिना वसुमतीतले शेषः । इह सहचरितस्तावत्तेजःपालेन वस्तुपालोऽस्तु ॥ [१५] १३ ॥ श्रीविक्रमसंवत् १२८८ वर्षे पौष शुदि १५ शुक्रे प्रशस्तिनिष्पन्ना ॥ एतामलिखत् वाजडतनुजन्मा ध्रुवकजयतसिंहाख्यः । उदकिरदपि बकुलस्वामिसुतः पुरुषोत्तमो विमलां ॥
शिलालेखाङ्क-२
[१] ॥ ० ॥ ॐ नमः श्रीसर्वज्ञाय ॥ देवः स वः शतमखप्रमुखामरौघालतप्रथः प्रथमतीर्थपतिः पुनातु ।
धर्मक्रमोऽपि किल केवल एव लोके नीतिक्रमोऽपि यदुपक्रममेष भाति ॥१॥ श्रीविक्रमसंवत् १२८८ [२] वर्षे पौष सुदि १५ शुके श्रीमदणहिलपुरवास्तव्यप्राग्वाटवंशालंकरण ठ० श्रीचण्डपात्मज ठ० श्रीचण्डप्रसादांगज ठ० श्रीसोमतनुज ठ० श्रीआशाराजनन्दनेन ठ० श्री कुमारदेवीकुक्षिसंभूतेन ठ० श्रीलूणि [३]ग महं० श्रीमालदेवयोरनुजेन महं० श्रीतेजःपालाग्रजन्मना चौलुक्यकुलनभस्तलप्रकाशनकमार्सण्डमहाराजाधिराजश्रीभुवनप्रसाददेवसुतमहाराजश्रीवीरधवलदेवप्रीतिप्रतिपन्नराज्यसर्वैश्व[४]र्येण सं[0] ७७ वर्षे श्रीशत्रुजयोजयंतप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादित............त्येन श्रीशारदाप्रतिपन्नापत्येन महामात्यश्रीवस्तुपालेन अनुज महं० श्रीतेजःपा ५ लेन च इह स्वकारितसौवर्णदंडकलशविराजितसञ्चारुतोरणालंकृतश्रीमदुज्जयंतस्तंभनकतीर्थयावतारर.......
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org