SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ [४४२] આ વિનંદનસૂરિ સ્મારકગ્રન્થ दलकमल' भवदीय सुखसातोदन्तबोधक प्राप्तम् । तेनास्मदीयचेतः प्रमोदभरभाजन' जातम् ॥ १० ॥ अत्रास्मदगुरुवर्याः मंप्रति कुशलान्विता विराजन्ते । भव्यजनाञ्जिनमार्ग प्रवर्तयन्तो गिरा शुभया ॥ ११ ॥ अध्ययनाध्यापनयोः संयोजितमानसो मुनिः स्वस्थः । प्रद्युम्नाऽऽख्यस्तपसः साधितवानोलिका दशमीम् ॥ १२ ॥ जनकमुनिहींराख्यः सत्यप्यवगण्य देहदुःस्थत्वम् । सदाचनमालादौ सुखमास्ते व्यापृतस्यान्त: ॥ १३ ॥ मुनिदर्शनविजयाख्यो दीर्घविहारक्षम विनोदयितुम् । किश्चिदू विश्रम्य तदनु स्वाध्यायचिकी: ससुखमास्ते ॥ १४ ।। कर्मग्रन्थ तथा सूत्रमुत्तराध्ययन पठन् । कुरुते पुण्डरीकाख्यो वर्धमानाभिध' तपः ॥ १५ ॥ कृताभिधानकोशोऽय चन्द्रकीर्तिमुनिस्तथा । दृढीकरोति सत्तर्कसंस्कारान् भूरियत्नतः ॥ १६ ॥ विद्याधरोऽपि श्रीवर्धमाना तप आचरन । तत्त्वार्थ संस्कृत चापि समधीते स्थिराशयः ॥ १७ ॥ विनयपुरस्सरमेते वन्दनमावेदयन्ति सर्वेऽपि । तत् स्वीकार्य कृपया गुणरत्नाम्भोधिना भवता ॥१८॥ तत्र भवन्तः पूज्या भव्याम्भोज विबोधयन्तो द्राक । वर्तिष्यन्ते कुशला इत्याशासेऽहमनवरतम् ॥ १९ ॥ तत्रत्या मुनिवर्याः समेऽपि सातान्विता भविष्यन्ति । नामग्राह' तेभ्यो वाच्यो मे वन्दनादिविधिः ॥ २० ॥ प्रारप्स्येते श्रीमजम्बूचरित' च पश्चमाङ्गमिह । आवश्यके तृतीयः प्रविभागः वाच्यते ह्यधुना ।। २१॥ पंन्यासशीलभद्रा निरुपाय राजपत्तन' प्रहिताः । तस्मात शून्य' स्थान तत्प्रतिमायादिति स्पष्टम् ॥२२ ।। तदपि न कार्या भवता प्राकृतजनवत् कदाप्यधृतिभावः । अपि विरहः कतिकृत्वः प्रीतिकरो जायतेऽपूर्व: ॥ २३ ॥ जानन्त्येव भवन्तः शास्त्रेदम्पर्यवेदिनः पूज्याः । भ्रमति सदाऽस्मिन् भुवने संयोग-वियोगयोश्चक्रम् ॥२४॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.012053
Book TitleVijaynandansuri Smarak Granth
Original Sutra AuthorN/A
AuthorRatilal D Desai
PublisherVisha Nima Jain Sangh Godhra
Publication Year1977
Total Pages536
LanguageGujarati, Hindi
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy