SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ [४२८] આ. વિ. નંદનસૂરિ સ્મારક इहाद्यावधि या नाथ ! ज्ञाताऽज्ञातास्तथाऽपराः । लेपशिल्प्यादिभिर्जाता:, काश्चिदाशातना: खलु ॥ ६ ॥ शिल्पिकारुप्रभतयोऽकाधुर्यद्रिंखण कुतः । वयमज्ञा न जानीम एतेऽपि मतिमाढ्यत: ।। ७ ॥ बिम्बानामिह लेपादि-विधाने स्थापने तथा । या जाता अविवेकेना-शातनानां परम्पराः ॥ ८ ॥ परिहारकृते तासां, सर्वासां विधिना सता । जैनधर्मकनिष्ठेना-हम्मदाबादवासिना ॥ ९ ॥ श्रेष्ठिचीमनलालेन, लालभाईसुसुनुना । अभिषेकक्रियाऽऽरब्धा, नेमिसूरीशशासनात् ॥ १० ॥ अष्टाहिकोत्सव: श्रेयः, कुम्भस्य स्थापन तथा । ग्रह-दिक्पालपूजा च, रथयात्रा महोद्धरा ॥ ११ ॥ शास्त्रोक्ता च बृहन्नन्द्या-वर्तपूजा सुबिस्तरा । अभिषेकक्रिया मुख्या, शान्तिस्नात्रमहोत्सवः ॥ १२ ॥ सूरिमन्त्रैर्मूलमन्त्रै-मुद्रामण्डलदर्शनैः । अभिषेकविधानादा-शातना यान्तु दूरतः ॥ १३ ॥ कल्पोक्तविधिनैतच्च, यथाशक्त्यखिलं कृतम् । प्रसीदादिमतीर्थेश ! शत्रुजयशिरोमणे ! ॥१४ ॥ प्रमादाज्ञाननिर्मग्ना, वयं नाथाविवेकिनः । भक्तियोगेऽपि सम्मूढाः, प्रसादं कृपया कुरु ।। १५ ॥ त्वमेव शरणं नाथ ! त्वमेव च कृपाम्बुधिः । शान्तिं तुष्टिं च पुष्टिं च, प्रसादात् कुरु च क्षमाम् ॥ १६ ॥ दैन्यं रोगश्च दोषश्च, दुरितं यान्तु च क्षयम् । सौमनस्यं शुभं सिद्धि-र्जायतां त्वत्प्रसादतः ॥ १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012053
Book TitleVijaynandansuri Smarak Granth
Original Sutra AuthorN/A
AuthorRatilal D Desai
PublisherVisha Nima Jain Sangh Godhra
Publication Year1977
Total Pages536
LanguageGujarati, Hindi
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy