________________
પરિશિષ્ટ આ. મ.ની હયાતીની કેટલીક સામગ્રી
। ४२८ सर्वे शासनदेवाश्च, सर्वे सूर्यादयो ग्रहाः । चक्रेश्वरी कपर्दिश्च, प्रसन्नाः सन्तु सर्वदा ॥ १८ ॥ श्रीचतुर्विधसंघेऽस्मिन् , ज्ञानादित्रितयं प्रभो ! । वर्धतां ते प्रसादेन, जायतां मङ्गलावली ॥ १९ ॥ पुत्रपौत्रादिसन्ताने, सौभाग्यं धर्मधीर्यशः । पुण्यानुबन्धिनी लक्ष्मी-वर्धतां च दिने दिने ।। २० ।। सिद्धान्तशास्त्रसिद्धाय, त्रिकालाबाधिताय च । नमस्ते तीर्थराजाय, शत्रुजयमहागिरे ! ॥ २१ ॥ आशातना या: किल देवदेव ! मया त्वदर्चारचनेऽनुषक्ता । क्षमस्व तां नाथ ! कुरु प्रसाद, प्रायो नरा: स्यु: प्रचुरप्रमादा: ।। २२ ।। न धनं न हि राज्यसम्पदं, न हि विद्यामिदमेकमर्थये । मयि धेहि मनागपि प्रभो ! करुणाभगितरङ्गिते दृशौ ॥ २३ ॥ मरुदेवाकुक्षिसरो-ऽम्भोरुह ! क्षितिपावन ! क्षमस्व ऋषभस्वामिन् ! कृपापीयुषवारिधे ! ॥ २४ ॥ ॐ ही श्री ऋषभस्वामिन् ! नमस्ते त्वत्प्रभावत: । ऋद्धिवृद्धिश्च कल्याणं, श्रीसंघे जायतां सदा ॥ २५ ॥
(२यन : वि. स. १८८६ मा १२; पालिता!; ५'यविशिम
વર્ણવેલ મહોત્સવ અવસરે. ૨૨ શ્લેક પ્રાચીન છે.)
[3] श्रीकदम्बगिरितीर्थराजस्तोत्र-भांना ८८४ श्यो। कदाहं कादम्बे विमलगिरिशृङ्गारतिलके,,
वसानः सन्तापं त्रिविधमपि तीव्र प्रशमयन् । परात्मन्यात्मानं समरसविलीन च विदधत् ,
समानेष्ये सोऽह ध्वनितहृदयोऽशेषदिवसान ॥२॥ घसन् कादम्बाद्रेः परमरमणीये परिसरे,
स्थितो योगाभ्यासे शमदमसमाधानसुभगे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org