SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ [४२७] પરિશિષ્ટ : આ. મની હયાતીની કેટલીક સામગ્રી श्रीपार्वेश ! तवाभिवन्दनधियां मासोपवास फलं, षण्मासक्षपणं च दर्शनफलं साक्षाज्जनानां ध्रुवम् । स्वलो के जलधौ च कान्तिनगरे सेढीतटे स्तम्भने, पायान्नः स सुरेभ्यकृष्णवरुणैर्नागार्जुनेनार्चितः ॥७॥ नित्यानन्दमयाय शुद्धमनसां ध्येयाय तुभ्यं नमो, भव्यानां भवनाशनाय भवतस्त्राणाय तुभ्यं नमः । आधिव्याधिहराय दुःखदुरितध्वंसाय तुभ्यं नमः, श्रीमत्स्तम्भनभूषणाय भगवन् ! पार्थाय तुभ्यं नमः ॥८॥ पायान्नन्दनसूरिणा विरचितं शर्मप्रदं शान्तिदं स्तोत्रं स्तम्भनपार्श्वनाथचरणाम्भोकभक्तिप्रदम् । पृथ्वीनेत्रनभःकराङ्कितशुभे वर्षे मुदा वैक्रमे, श्रीमत्स्तम्भपुरे ततो भवतु नः सुप्रीणितः श्रोजिनः ॥९॥ [२] सकलतीर्थसार्वभौम-श्रीसिद्धगिरिभगवद्विभूषण श्रीऋषभप्रभुविज्ञप्तिपञ्चविंशतिका जय त्वं जगदानन्द ! जगत्तारणवत्सल ! । शत्रुजयमहातीर्थ-शाश्वतार्चाप्रवर्तक ! ॥१॥ केवलज्ञाननिर्वाण-शाश्वतानन्ददायिने । पुण्डरीकगिरीशाय, शाश्वताय नमोनमः ॥२॥ ढङ्ककादम्बमुख्यानि, यस्य कूटेपु पंच वै । रसकूप्यौषधी रत्न-खानिभिर्बिभ्रते श्रियम् ।। ३ ।। भवनव्यन्तरज्योति–वैमानिकसुरैर्नरैः । सेविताय नमस्तस्मै, सर्वतीर्थातिशायिने ॥ ४ ॥ संख्यातीता: समुद्धाराः, कारिता भरतादिभिः । उद्धारः कारितश्चात्र, कर्माशाश्रेष्ठिना ह्ययम् ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012053
Book TitleVijaynandansuri Smarak Granth
Original Sutra AuthorN/A
AuthorRatilal D Desai
PublisherVisha Nima Jain Sangh Godhra
Publication Year1977
Total Pages536
LanguageGujarati, Hindi
ClassificationSmruti_Granth & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy