________________
११
१४
स्याद्वादसिद्धान्तसुबोधनाय तत्राप्यनेकान्तमहोदयाय यन्मानसं सत्यविबोधनेऽस्ति कैलाशचन्द्रो जयतात्सूधीन्द्रः
दिगम्बरे जैनकुले सुजातः यो जातितोऽभून्ननु चाग्रवालः प्रशान्तमूर्तिः सरलस्वभावः कैलाशचन्द्रो जयतात्सुधीन्द्रः
१२
बुद्धिर्यदीया प्रतिभाति लोके सर्वत्र सार्थेविषयेऽनुभूते वाण्याःपटुत्वं प्रतिवस्तुगामि कैलाशचन्द्रो जयतात्सुधीन्द्रः
चरित्रनिष्ठो ह्यमितप्रतिष्ठः सज्ज्ञानलाभे विहितप्रयत्नः कृतादरो भव्यजनोपदेशे कैलाशचन्द्रो जयतात्सुधीन्द्रः
मनीषिमान्यः प्रवरैः प्रमाण्यः धन्यो हि विज्ञानधनैः प्रधन्यः नान्योऽस्ति यत्तः सुकृतां वदान्यः कैलाशचन्द्रो जयतात्सुधीन्द्रः
विद्योपजीवी सुतरान्त्वमेव करोषि शास्त्राध्ययनं सदैव तं नम्यते प्रेमभरेण मूर्धा कैलाशचन्द्रो जयतात्सुधीन्द्रः
१७
कैलाशचन्द्रस्य यथार्थरूपाः प्रमोदभावेन निरुपिता च भूयात्प्रशस्तिः प्रशमाय चैषा बुधप्रियाणां वरमानवानाम्
अन्तिमशुभाभिसन्धिः
१८ भूयात्सदैषा शुभमार्गदृष्टिः कृतिर्जनानां हितमुत्सुकानाम् करोतु कृत्यं सुखसाधनार्थम् निर्बाधरूपेण सदाशया वै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org