SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ देशभुषण-गुणस्तुतिः -आचार्य प्रकाशचन्द्र जैन संसाराधिनिमग्नजीवकरुणासन्मार्ग सन्देशदः, विद्युन्नश्वरलोकभोगविषयान् मोक्षेच्छया योऽत्यजत् । तारुण्येऽयमभूद्दिगम्बरमुनिस्तप्तुं तपो दुश्चरम्, विद्वाञ्जीवतु देशभूषणगुरुयावच्छशी द्योतते । ॥ जैनाचार्य-परम्परा नियमिना पूतात्मनाऽलंकृता भव्याम्भोजविकास रम्यरविणा धर्मप्रकाशः कृतः। जैनाचारविकासबद्ध मतिना देशः समस्तो महान्, पादाभ्यां विहृतस्तपस्विमणिनाऽचार्येण शान्तात्मना ॥२॥ विद्यामण्डनमण्डितं गुणगणालङ्कारशोभान्वितम्, पूज्यं संयमिनं कषायरहितं गङ्गाम्बुवन्निर्मलम् । जैनाचार्यशिरोमणि विनयवान् धर्मस्य संरक्षकम्, वन्दे तं मुनिदेशभूषणगुरुं भक्त्या महत्या मुदा ॥३॥ कर्मारातिवनं विशालविकटं दग्ध सदा तत्परः, निश्चिन्तो जगतो निजात्मरमणोऽध्यात्मप्रबोधोज्ज्वलः । सर्वोद्धारसुचारुभावलसितः साहित्यसेवी महान्, गम्भीरोमधुराल्पभाषणपरः सद्धर्मवर्षापटुः ॥४॥ जातिर्मेऽद्य विभाति गौरवमयी लब्ध्वा तपोभूषणम्, सम्यक्त्वादिविभूषितं हितकरं देशस्य संभूषणम् । शास्त्रज्ञः खलु देशभूषणयतिः सर्वांस्तु मोक्षार्थिनः, पन्थानं विमलं प्रदर्शयतु मुक्तेर्यत्र नित्यं सुखम् ॥५॥ आचार्यरल श्री देशभूषण जी महाराज अभिनन्दन ग्रन्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012045
Book TitleDeshbhushanji Aacharya Abhinandan Granth
Original Sutra AuthorN/A
AuthorR C Gupta
PublisherDeshbhushanji Maharaj Trust
Publication Year1987
Total Pages1766
LanguageHindi, English
ClassificationSmruti_Granth & Articles
File Size56 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy